________________
केचिदक्षीणद्धियुक्ताः, ते च द्विविधा अक्षीणमहानसा अक्षीणमहालयाश्च । येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव बहुभ्यो दीयमानमपि न क्षीयते तेऽक्षीणमहानसाः। अक्षीणमहालयर्द्धिप्राप्ताश्च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधा रहितास्तीर्थकरपर्षदीव सुखमासते । इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महर्द्धयो दर्शिताः।
सर्वेन्द्रियाणां विषयान् गृह्णात्येकमपीन्द्रियम् ।
यत्प्रभावेन सम्भिन्नस्रोतोलब्धिस्तु सा मता ॥१॥८॥ तथा
चारणाशीविषावधिमनःपर्यायसम्पदः ।
योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ॥ ९॥ अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः, तत्सम्पत् तल्लब्धिरित्यर्थः। आशीविषलब्धिर्निग्रहानुग्रहसामर्थ्यम्। अवधिज्ञानलब्धिमूर्तद्रव्यविषयं ज्ञानम् । मनःपर्यायज्ञानलोब्धर्मनोद्रव्यप्रत्यक्षीकरणशक्तिः । एता लब्धयो योगकल्पवृक्षस्य कुसुमभूताः । फलं तु केवलज्ञानं मोक्षो वा । भरत-मरुदेव्युदाहरणाभ्यां वक्ष्यते। तथाहि
१ दृश्यतां तत्त्वार्थराज०३। ३६ ।। २०श्रवणाo-शां. खं. ॥ ३ श्रोतो०-मु.॥
Jain Education
nal
For Private & Personal Use Only
Ivww.jainelibrary.org