SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।। ४२ ।। Jain Education Inter voodoos तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रुत्य आ अन्त्यपदादर्थग्रन्थ विचारणा समर्थ पटुतरमतयोऽनुस्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादा अर्थग्रन्थविचार पटवः प्रतिस्रोतः पदानुसारिबुद्धयः । मध्यपदस्यार्थं ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छिन्नपदसमूहप्रतिनियतार्थग्रन्थोद धिसमुत्तरण समर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बीजबुद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी त्वेकपदावगमात् पदान्तराणामवगन्तेति विशेषः । तथा मनोवाक्कायबलिनः । तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तृद्धृत्यान्तर्मुहूर्तेन सकल तोदध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहूर्तेन सकलश्रुत वस्तूच्चारण समर्था वाग्बलिनः । अथवा पदवाक्यालङ्कारो - पेतां वाचमुचैरुच्चारयन्तोऽविरहितवाक्क्रमा हीनकण्ठा वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूता साधारणका यबलत्वात् प्रतिमयावतिष्ठमानाः श्रमक्लमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा क्षीरमधुसर्पिरमृतास्रविणः । येषां पात्रपतितं कदन्नमपि क्षीरमधुसप्पिरमृतरसवीर्यविपाकं जायते वचनं वा शारीरमानसदुःखप्राप्तानां देहिनां क्षीरादिवत् सन्तर्पकं भवति ते क्षीरास्रविणो मध्वास्रविणः सर्पिरास्रविणोऽमृतास्रविणश्च । २ दृश्यतां तत्त्वार्थराज० ३ | ३६ || ३ श्रविणो- शां. ॥ ४ वचनं च खं । १ श्रोत:- मु.। एवमग्रेऽपि सर्वत्र । ५ ०वि० - खं । एवमग्रेऽपि ॥ For Private & Personal Use Only प्रथमः प्रकाश: श्लोक ८ ॥ ४२ ॥ 5 10 jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy