SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ॥ ४१ ॥ Jain Education Inte अथवा प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहाप्रज्ञद्धिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थ चतुर्द्दशपूर्बी निरूपयति तस्मिन् विचारकृच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । अन्येऽधीतदशपूर्थ्या रोहिणी - प्रज्ञप्त्यादिमहाविद्यादिभिरङ्गुष्टप्रसेनिकादिमिरल्पविद्याभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणात् विद्याधरश्रमणाः । केचिद् - बीज कोष्ठ - पदानुसारिबुद्धिविशेषर्द्वियुक्ताः । सुकृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं चीजमनुपहतं यथानेक बीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थवीजानां प्रतिपत्तारो बीजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानां श्रौतानामर्थग्रन्थबीजानां भूयसा मनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्ठबुद्धयः । पदानुसारिणोऽनुस्रोतः पदानुसारिणः प्रतिस्रोतः पदानुसारिण उभयपदानुसारिणश्च । १ अनधीतैकादशांग - शां । दृश्यतां तत्त्वार्थराज० ३ | ३६ || २ काभिरल्पविद्यादिभिश्चो - मु. । " विधानुवादम् । तत्र अङ्गुष्ठप्रसेनादीनामल्पविद्यानां सप्त शतानि रोहिण्यादीनां महाविद्यानां पञ्च शतानि । " तत्त्वार्थराज० १ | २० | " पण्हावागरणेसु णं अदुत्तरं पसिणसयं... तं जहा अंगुरुपसिणाई बाहुपसिणाई अहागपरिणाई ...... | ". नन्दी० ५५ || 3 धारणा वि -शां ॥ ४०ष्टवसुमती०-मु। दृश्यतां तस्वार्थराज० ३ | ३६ | " दात्रं लवित्रं तन्मुष्टौ घण्टो मत्यं समीकृतौ । [३ । ५५६ ]... 'मत' शब्द: साम्यपर्यायः मतस्य करणं मत्यम् ... असमस्य समीकरणं तत्र ।" - अभि० चिन्ता० स्वो० ॥ ૧૧ For Private & Personal Use Only 10 ॥ ४१ ॥ w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy