________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम् ॥ ४० ॥
Jain Education Inta
तथाहि तीर्थनाथानां योगभृच्चक्रवर्त्तिनाम् । देहास्थिशकलस्तोमः सर्व्वस्वर्गेषु पूज्यते ||६७|
किञ्च, मेघमुक्तमपि वारि यदङ्गसङ्गमात्राद् नदीवाप्यादिगतमपि सर्व्वरोगहरं भवति । तथा विपमूच्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषीभवन्ति, विषसंपृक्तमप्यन्नं यन्मुख प्रविष्टमविषं भवति, महाविषव्याधिवाधिता अपि यद्वचः श्रवणमात्राद् यद्दर्शनाच्च वीतविकारा भवन्ति, एष सर्वोऽपि सर्वैाषधिप्रकारः । एते कफादयो महर्द्धिरूपाः । अथवा महर्द्धयो विभिन्ना एव । विक्रियालन्धयोऽनेकधा, अणुत्व - महत्व - लघुत्व - गुरुत्व - प्राप्ति - प्राकाम्येशित्व - वशित्वा - प्रतिघातित्वा - ऽन्तर्द्धान- कामरूपित्वादिभेदात् । अणुत्वमणुशरीरविकरणम्, येन विसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महवं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता | प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्र- प्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सु भूमाविवाऽप्रविशतो गमनशक्तिः, तथा अविव भूमान्मञ्जननिमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकर - त्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः ।
१ निर्विषा भ० - मु. २ दृश्यतां तत्रार्थ राज० ३ | ३६ || शब्दतोऽर्थतश्रप्रभृतं साम्यमत्र तत्त्वार्थराज वार्तिकेन [३ | ३६ ] सह वर्तते । तस्वार्थमा० १० । ७ ।। ३ ०शरीरिता- शां ॥ ४ 'विव प्रवि० - मु. ॥ ५रूपत्वं - खं. ॥
For Private & Personal Use Only
प्रथम: प्रकाशः
श्लोकः ८
॥ ४० ॥
5
10
www.jainelibrary.org