SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ।। ३९ ।। Jain Education Inte तांश्चिकित्सितुमीशौ चेद्युवां तर्हि चिकित्सतम् । अथो चिकित्सथो द्रव्यरोगांस्तद् बत पश्यतम् ||५५ || ततोऽङ्गुलीं गलत्वामाशीण स्वकफविप्रुषा । लिप्त्वा शुल्वं रसेनेव द्राक् सुवर्णीचकार सः || ५६|| ततस्तामङ्गुलीं स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य पेततुः प्रोचतुश्व तौ ॥५७॥ निरूपयिपू रूपं यौ त्वामायातपूर्व्विणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥५८॥ fearfour व्याधिवाघां सोढा तपस्यति । सनत्कुमारो भगवा नितीन्द्रस्त्वामवर्णयत् ||५९॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ ६० ॥ एतन्निदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता ग्रन्थगौरवभीरुभिः ||६१ || योगिनां योगमाहात्म्यात् पुरीषमपि कल्पते । रोगिणां रोगनाशाय कुमुदामोदशालि च ॥ ६२|| मलः किल समाम्नातो द्विविधः सर्व्वदेहिनाम् । कर्णनेत्रादिजन्मैको द्वितीयस्तु वपुर्भवः ||६३|| योगिनां योगसम्पत्तिमाहात्म्याद् द्विविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्व्वरोगिणाम् ||६४|| योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामया विनाम् ||६५॥ नखाः केशारदाश्चान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सव्वौषधिः स्मृता ॥ ६६ ॥ १ गलत्वामां - मु. त्रिषष्टि० ४ । ७ । ३९७ ।। २ शरीरकम् - खं. ॥ For Private & Personal Use Only 10 ॥ ३९ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy