SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् 11 34 11 Jain Education Int निष्कषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित् तन्न्यवर्तत ||४३|| यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे सम्पूर्णेौहदेरिव ||४४ || कच्छ्र -शोष ज्वर श्वासाऽरुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि सः ॥ ४५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः || ४६ || अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कार कारेत्यस्य वर्णनम् ||४७ ॥ चक्रवर्त्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलवत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ४८ ॥ तपोमाहात्म्यलब्धासु सर्व्वास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति ॥ ४९ ॥ अधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो विजयन्तश्च तत्समीपमुपेयतुः ||५० ॥ ऊचतुश्व महाभाग कि रोगैः परिताम्यसि । वैद्यावावां चिकित्सावो विश्वं स्वैरेव भेषजैः ॥ ५१ ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदद्वाय निगृह्णीवो रोगानुपचितांस्तव ||५२|| ततः सनत्कुमारोऽपि प्रत्यृचे भोचिकित्सकौ । द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३॥ क्रोधमानमायालोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽनन्तदुःखदाः ||५४|| १ त्रिषष्टि० ४ । ७ । ३८६ । उपायनि० - मु. । “ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यथाऽनिच्छन्नु पेयस्य परां श्रियमशिश्रियः ॥ २ शरीर के शां. । ३ भो चिकि० -खं । तौ चिकि० क च ॥ वीतरागस्तो० ३ । १४ । For Private & Personal Use Only प्रथमः प्रकाश: श्लोक : ८ ।। ३८ ।। 5 10 wwww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy