________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लो०६-७-८
दूरतोऽपि तदाकर्ण्य तरङ्गितकुलूहलौ । विलोकयितुमायातावावामवनिवासव ॥१८॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतत् सविशेष निरीक्ष्यते ॥१९॥ ऊचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते । २०॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ। यावन्निवय॑तेऽस्माभिरेष मज्जनकक्षणः ॥२१॥ विचित्ररचिताकल्पं भरिभूषणभूषितम् । रूपं पुननिरीक्षेथां सरत्नमिव काश्चनम् ॥२२॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः। साडम्बरः सदोऽध्यास्ताऽम्बररत्नमिवाम्बरम् ॥२३॥ अनुज्ञातौ ततो विप्रो पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ ॥२४॥ क्व तद्रूपं क्व सा कान्तिः क्व तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥२५॥ नृपः प्रोवाच तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनाननौ ॥२६॥ ततस्तावूचतुरिंदं सुधामधुरया गिरा। महाभाग सुरावावां सौधर्मस्वर्गवासिनी ॥२७॥ मध्येसुरसभं शक्रश्चक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद् द्रष्टुं मर्त्यमूर्त्याऽऽगताविह ॥२८॥ शक्रेण वर्णितं यादृक् तादृगेव पुरेक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ॥२९॥ १ यावन्निवर्त्यते-मु.॥ २०रचनाकल्यं-त्रिषष्टि० ४।७। ३६१ ॥ ३ -ख. ग. त्रिषष्टि० ४।७। ३६८ । तादृशं वपुरीक्षितम्-मु.॥
Jain Education Intel
For Private & Personal Use Only
a
w.jainelibrary.org