SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ। विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥५॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुभःस्थसन्निधौ ॥६॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् ॥७॥ द्वारस्थौ द्वारपालेन द्विजाती तो निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ। धूनयामामतुालिं चिन्तयामासतुश्च तौ ॥९॥ । ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः। नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥१०॥ दन्तच्छदौ पराभूतपक्वविम्बीफलच्छवी । निरस्तशुक्तिको कर्णो कण्ठोऽयं पाञ्चजन्यजित् ॥११॥ करिराजकराकारतिरस्कारकरौ भुजौ । स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरःस्थलम् ॥१२॥ मध्यभागो मृगारातिकिशोरोदरसोदरः। किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः ॥१३॥ अहो कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव ॥१४॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥१५॥ किंनिमित्तमिहायातौ भवन्तौ द्विजसत्तमौ । इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः ॥१६॥ लोकोत्तरचमत्कारकारकं सचराचरे। भुवने भवतो रूपं नरशार्दूल गीयते ॥१७॥ १ मुरस्थ -रोमु.॥ Jain Education in For Povate & Personal Use Only 2 ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy