________________
स्वोपज्ञवृत्तिविभूषितं যাহামু
प्रथमः प्रकाशः श्लो०६-७-८ ॥ ३४॥
- महर्द्धिशब्दः प्रत्येकर्मभिसम्बध्यते । कफः श्लेष्मा । विगुडुच्चारः पुरीपमिति यावत् । मलः कर्ण-दन्तनासिका-नयन-जिह्वोद्भवः शरीरसम्भवश्च । आमर्शी हस्तादिना स्पर्शः। सर्वे विण-मूत्र-केश-नखादय उक्ता अनुक्ताश्च औषधयो योगप्रभावान्महर्द्धयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः। तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व विषयैः, तेषां लब्धिः, योगस्येदं यौगं ताण्डवडम्बरं विलसितम् ।
तथाहि योगमाहात्म्याद्योगिनां कफविन्दवः । सनत्कुमारादेखि जायन्ते सर्वरुछिदः ॥१॥ सनत्कुमारो हि पुरा चतुर्थश्चक्रवर्त्यभूत् । पखण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥२॥ कदाचिच सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥३॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥४॥ १०मपि सम्ब०--मु.॥ २ दृश्यतां तत्त्वार्थराज० ३ । ३६ ॥ ३ प्रभवा० खं. ॥ ४ स्रोतांसी० खं.॥
-ख. ग. च. डम्बरं दर्शितम्-मु. ॥ ६ विविधानां योगजन्य लब्धीनां स्वरूपं जिज्ञासुभिर्द्रष्टव्या ग्रन्था:त्रिषष्टिः १।१। ८४३-८८०। षट्खंडागमधवला०९।४। तिलोयप०४ । ९६८-१०९१ । तत्त्वार्थभा० १०।७। तत्त्वार्थराज०३। ३६ । आव० मल० पृ० ७८-८१ । आव० हारि० पृ.४७-४८ । आव० चू० पृ०६८-७१। विशेषाव. गा. ७८२-७९७ । प्रवचनसा गा० १४९२-१५०८॥ ७ अस्य सनत्कुमारचरित्रस्य प्रायः सर्वेऽपि लोका: समानाः त्रिषष्टिः४।७। ३४३-४०१॥
Jain Education Inte
For Private & Personal Use Only
w
ww.jainelibrary.org