________________
कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदः शक्यक्रिय इति विपत्कारणपापनिर्धातहेतुत्वं योगस्याह
भूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः ।
चण्डवाताद घनघना घनाघनघटा इव ॥ ६॥ बहन्यपि पापानि योगात प्रलयमुपयान्ति प्रचण्डवातोद्धता अतिघना मेघघटा इव ॥६॥
स्यादेतत्-एकजन्मोपार्जितं पापं योगः क्षिणुयादपि, अनेकभवपरम्परोपात्तपापस्य तु निर्मूलनं योगादसम्भावनीयमित्याह
क्षिणोति योगः पापानि चिरकालाजितान्यपि ।
प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥ ७॥ ___ यथा चिरकालमीलितान्यपीन्धनानि क्षणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात् करोति। एवं योगः क्षणमात्रेणैव चिरसञ्चितपापसंक्षयक्षमो भवतीति ॥७॥
योगस्य फलान्तरमाहकफविषुण्मलामर्शसौषधिमहर्द्धयः ।
सम्भिन्नश्रोतोलब्धिश्च यौग ताण्डवडम्वरम् ॥८॥ १०पि कृशः-जैमुपा.॥
Jain Education Intem
For Private & Personal Use Only
Nw.jainelibrary.org