________________
स्वोपज्ञवृत्तिविभूषितं
प्रथमः प्रकाश: श्लोकः ४-५
योगशास्त्रम्
योगस्यैव माहात्म्यमाहयोगः सर्वविपदल्लीविताने परशुः शितः ।
अमूलमन्त्रतन्त्रं च कार्मणं निर्वृतिश्रियः ॥५॥ सर्वा विपद आध्यात्मिका-ऽऽधिभौतिका-ऽधिदैविकलक्षणाः, ताश्वातिविततत्वावल्लीरूपाः, तासां वितानः समूहः, तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिः। मोक्षलक्ष्म्याः परमपुरुषार्थरूपाया मूल-मन्त्र-तन्त्रपरिहारेण कार्मणं संवननं योगः । कार्मणं हि मूल-मन्त्र-तत्रविधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरणहेतुरिति ॥५॥
१ “यद्यप्येकं दुःखं तथापि निमित्तानामध्यात्मा-ऽधिभूता-ऽधिदैवलक्षणानां भेदादस्य भेदोपचार....आध्यात्मिकं हि द्विविधं शारीरं मानसं च । शारीरं तावद् वात-पित्त-प्रलेष्मणां वैषम्यनिमित्तम् । मानसं काम-क्रोध-लोभ-मोहविषाद-भयेा -ऽसयाऽरत्यविशेषदर्शननिमित्तम् । आधिभौतिकं च मनुष्य-पशु-मृग-पक्षि-सरीसृप-स्थावरनिमित्तम् । आधिदैविक शीतोष्णवातवर्षाशन्यवश्यायावेशनिमित्तम् ।"-सांख्यकारिकायुक्ति पृ०५॥
२ "कार्मणं मूलकर्माथ संवननं वशक्रिया। ६ । १३४।...... मूलैरोषधादिभिवंशीकरणं मूलकर्म । समन्ताद् बन्यते सेव्यते वाऽनेन संवननम् । वशे करणं वशक्रिया, वशीकरणमित्यर्थः !” अभि० चिन्ता० स्वो० ॥ " मूलानां वा वनस्पत्यवयव विशेषाणां कर्म मूलकर्म ।"-पञ्चाशकवृ० १३ । १९ ॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org