SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कर्मणेवंविधनायं क्व वराको ब्रजिष्यति । न शक्यते तारयितुमस्माभिरपि तारकैः ॥१२१॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोद्वाष्पे मन्थरतारके ॥१२२॥३।। एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं प्रस्तौति श्रुताम्भोधेरधिगम्य सम्प्रदायाच सद्गुरोः । स्वसम्वेदनतश्चापि योगशास्त्रं विरच्यते ॥४॥ इह नानिर्णीतस्य योगस्य पद-वाक्यप्रबन्धेन शास्त्रविरचना कर्तुमुचितेति योगस्य बिहेतुको निर्णयः ख्याप्यते शास्त्रतो गुरुपारम्पर्य्यात् स्वानुभवाच्च । तं त्रिविधमपि क्रमेणाह श्रुताम्भोधेः सकाशादधिगम्य निर्णीय, योगमिति शेषः । तथा गुरुपारम्पर्य्यात् । तथा स्वसम्वेदनात् । एवं त्रिधा योगं निश्चित्य तच्छाखं विरच्यते । एतदेव निव्वहणे वक्ष्यति " या शास्त्रात् सुगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् योगस्योपनिषद् विवेकिपरिषञ्चतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥१॥ ४॥ १ योगशास्त्रस्यान्तेऽयं श्लोकः ॥ Jain Education a l For Private & Personal Use Only | www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy