________________
दृढाङ्गहारा-भिनयैः सद्यखुटितकञ्चुका । बनती श्लथधम्मिल्लं दोर्मूलं काप्यदीदृशत् ॥१०८॥ दण्डपादामिनयनच्छलात् कापि मुहुर्मुहुः । चारुगोरोचनागौरमूरूमूलमदर्शयत् ॥१०९॥
श्लथचण्डातकग्रन्थिदृढीकरणलीलया । कापि प्राकाशयद्वापीसनाभिं नाभिमण्डलम् ॥११०॥ ७ “ अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥३७॥ कान्ता..........मदिरा तथा ।
षट्त्रिंशद् दृष्टयो ।ता नामतोऽभिहिता मया ॥४२॥" -नाट्यशा० अ० ८॥ ८ " भाषानिदानीं व्याख्यास्याम:-.........तत्राष्टौ भावाः स्थायिनः।।। प्रयस्त्रिंशद् व्यभिचारिणः । अष्टौ सात्त्विका इति त्रिभेदाः।" -नाटयशा० अ० ७॥
१ स्थिरहस्तादयो द्वात्रिंशदङ्गहारा विस्तरेण नाट्यशास्त्रे चतुर्थेऽध्याये वर्णिताः, अभिनयानां विविधा भेदप्रभेदा अष्टमे नवमे चाध्याये वर्णिताः सन्ति ॥
२ बध्नन्ती-खं. त्रिषधि०१०। ४ । २७० ।।
३ दण्डपादा आकाशिकी चारी । अस्या: स्वरूपम्" नृपुरं चरणं कृत्वा पुरतः संप्रसारयेत् । क्षिप्तमाषिद्धकरणं दण्डपादा तु सा स्मृता ॥४३॥"-नाटयशा० अ० १० । दण्डपादं मण्डलम् । अस्य स्वरूपं नाट्यशास्त्रे एकादशेऽध्याये [श्लो० १६-१८] विलोकनीयम् ।
४॥ वरख्यर्धारुकांशुकम् । चण्डातकश्चलनकः।" अभि. चि०३। ३३८॥ ५ मण्डलशब्दस्खिलिङ्गः॥
15
Jain Education in
For.Private & Personal use only
ww.jainelibrary.org