________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ २८ ॥
Jain Education Intern
क्रमव्युत्क्रमगैस्तानैर्व्यक्तैर्व्यञ्जनधातुभिः । प्रवीणावादयद्वीणां काचित् सकलनिष्कलाम् ||१०५ || स्फुटत्तकारधोङ्कारप्रकारैर्मेघनिस्वनान् । काश्चिच्च वादयामासुर्मृदङ्गांस्त्रिविधानपि ॥१०६॥ नभो भूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काचिदप्यननृतुः ॥१०७॥
।
१ तत्र मूर्छना संश्रितास्तानाश्चतुरशीतिः । .... द्विविधा तानक्रिया तन्त्र्याम्-प्रवेशो निग्रहश्च । तत्र प्रवेशो नामधरस्वरप्रकर्षनादुत्तरमार्दवाच्च । निग्रहश्चासंस्पर्शः । " - नाटयशा० अ० २८ ॥
२ विस्तार: करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेयाश्चाद्यन्तकरणाश्रयाः ||५२ ॥ इति दर्शविधः प्रयोज्यो वीणायां व्यञ्जको धातुः ॥७१॥ नाटयशा० अ० २९ ।।
३ " निमेषाः पञ्च विज्ञेया गीतकाले कलान्तरम् । ततः कलाकालकृतो लय इत्यभिसंज्ञितः ॥ ३ ॥
यो लयास्तु विज्ञेया द्रुत - मध्य - विलम्बिताः । यस्तत्र तु लयो मध्यस्तत्प्रमाणकला स्मृता ||४|| "
---नाटयशा० अ० २९ ॥
४ काश्चित्तु खं. ॥
५ मृदङ्गो मुरजः सोऽङ्कयालिङ्गयूर्ध्वक इति त्रिधा । २ । २०७ ।... स मृदङ्गः त्रिधा त्रिप्रकार: अङ्कोऽस्यास्तीति अङ्की, उत्सङ्गस्थत्वात् । आलिङ्गोऽस्यास्तीति आलिङ्गी, आलिङ्गय वादनात् । ऊर्ध्व कृत्य एकेन मुखेन वादनात् ऊर्ध्वं कायति ऊर्ध्वकः आभोगिकाख्यः । " अभि० चि० पृ० ॥ ६ “ एकपादप्रचारो यः स चारीत्यभिधीयते । द्विपादक्रमणं यत्तु करणं नाम तद् भवेत् ||३|| समपादा... मतल्ली चेति षोडश । एता भौम्यः स्मृताचार्यः श्रृणुताऽऽकाशिकीः पुनः ॥ १० ॥
अतिकान्ता... भ्रमरी चेति षोडश । आकाशिक्यः स्मृता होता लक्षणं च निबोधत ॥ १३॥ " - नाट्यशा० अ० १० ॥
For Private & Personal Use Only
प्रथम : प्रकाश: श्लोक ३
॥ २८ ॥
5
10
15
jainelibrary.org