SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ २५ ॥ अह्वाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥८॥ पृथिवीं सम्पुटीकतुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ॥८१॥ . ज्वालाजालैरुच्छलगिर्दिशः सर्वाः करालयत् । तत् पपात जगद्भतार्वानल इवाणवे ।।८२॥ कुलक्षितिधरक्षोदक्षमस्यास्य प्रभावतः । ममज्जाजानु भगवानन्तर्वसुमतीतलम् ॥८३॥ एवं भूतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ।।८४॥ कालचक्रहतोऽप्येष प्रपेदे पञ्चतां न यत् । अगोचरस्तदखाणामुपायः क इहापरः ॥८५।। अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथञ्चन । इति बुद्धया विमानस्थः स पुरोऽस्थादुवाच च ॥८६॥ महर्षे तव तुष्टोऽस्मि सत्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च ॥८७|| पर्याप्तं तपसानेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शङ्कां यच्छामि किं तव ॥८८|| इच्छामात्रेण पूर्य्यन्ते यत्र नित्यं मनोरथाः। किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ।।८९॥ अनादिभवसंरूढकर्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ॥१०॥ अशेषमण्डलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ॥११॥ ॥ २५ ॥ १ सम्पुटी कर्तु-शां. खं. ॥ २ उत्पपात-मु.॥ ३ एवम्भूतोऽपि-मु.॥ For Private & Personal Use Only A Jain Education Internet jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy