________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लोकः३ ।। २६ ॥
इत्थं प्रलोभनावाक्यैरक्षोम्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् ॥१२॥ मोपीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद् यद्येकं कामशासनम् ॥९३। यतः कामास्त्रभूताभिः कामिनीमिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥१४॥ इति निश्चित्य चित्तेन निर्दिदेश सुराङ्गनाः । तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥१५॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितः । कन्दर्पनाटकनटी वसन्तश्रीरशोभत ।।९६।। मुखवासं सज्जयन्ती विकसन्नीपरेणुमिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ॥९७॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । सर्वाङ्गं केतकव्याजात् कुर्वती प्रावृडाबभौ ॥९८॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोद्दामां पश्यन्ती शुशुभे शरत् ॥९९॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः। हेमन्तश्रीलिलेखेव प्रत्योः कुन्दकुड्मलैः ॥१०॥ गणिकेवोपजीवन्ती हेमन्त-सुरभी समम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ॥१०१॥ एवमुज्जृम्भमाणेषु सर्वर्तुषु समन्ततः । मीनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ॥१०२॥ सङ्गीतमविगीताङ्गथः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मन्त्रास्त्रमिव मान्मथम् ॥१०॥
Jain Education Intem
For Private & Personal Use Only
v.jainelibrary.org