________________
सवृत्तिके धर्मबिन्दौ
२६
द्वितीयोऽध्याय:
न साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? ॥९॥ इति । ___न नैव साधयति निर्वर्त्तयति यो जीवः सम्यग् यथावत् अज्ञः हिताहितविभागाकुशल: स्वल्पं तुच्छं चिकीर्षितं कर्तुमिष्टं निर्वाहाधनुष्ठानाद्यपि, कस्मान्न साधयतीत्याह- अयोग्यत्वात् अज्ञत्वेनानधिकारित्वात्, यथोक्तम्-मूर्खस्य क्वचिदर्थे नाधिकार: [ ] इति, कथं केन प्रकारेण मूढो वैचिन्त्यमागत: स: पूर्वोक्तो जीव: महत् परमपुरुषार्थहेतुतया बृहद् धर्मबीजरोहणादि साधयिष्यति?, सर्षपमात्रधरणासमर्थस्य मेरुगिरिधरणासमर्थत्वादिति ॥९॥
इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्याम: ॥१॥५९॥इति । इति एवं पूर्वोक्तगृहस्थधर्मनिरूपणेन सद्धर्मदेशनार्हो लोकोत्तरधर्मप्रज्ञापनायोग्य: उक्त: भणितः , इदानीं सम्प्रति तद्विधि सद्धर्मदेशनाक्रमं वर्णयिष्यामः निरूपयिष्यामो वयमिति ॥१॥ तद्यथा
तत्प्रकृति-देवताधिमुक्तिज्ञानम् ॥२॥६०॥ इति । तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृति: स्वरूपं गुणवल्लोकसङ्गप्रियत्वादिका, देवताधिमुक्तिश्च बुद्ध-कपिलादिदेवताविशेषभक्तिः, तयोर्ज्ञानं प्रथमतो देशकेन कार्यम्, ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढ: पूर्वव्युद्याहितश्च चेन्न भवति तदा कुशलैस्तथा तथाऽनुवर्त्य लोकोत्तरगुणपात्रतामानीयते, विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन तदूषणेन च सुखमेव मार्गेऽवतारयितुं शक्यते इति ॥२॥ तथा
साधारणगुणप्रशंसा ॥३॥६१।। इति । साधारणानां लोक-लोकोत्तरयो: सामान्यानां गुणानां प्रशंसा पुरस्कार: देशनार्हस्य अग्रतः विधेया, यथाप्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्या निरभिभवसारा: परकथा: श्रुते चासंतोषः कथमनभिजाते निवसति ? ॥४९॥ [नीतिश० ५७ ?] ||३|| तथाश्वैचित्य J.L. । वैचित्य मु. ॥ २ वर्तयि' J.L. ॥ + प्रथमोऽ: सर्वत्र प्रस्तुताध्यायसूत्रक्रमाक: । द्वितीयोऽ: आदित आरभ्य सूत्रक्रमाङ्गः । एवं सर्वत्रापि अग्रेऽवसेयम् ॥ ३ श्लोकोऽयं भर्तृहरिविरचिते नीतिशतके वर्तते, किन्तु तत्र 'सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्' इति चतुर्थः पादो वर्तते ।।
२६
Jain Education Internatinal
For Private & Personal use only
www.jainelibrary.org