________________
सवृत्तिके
धर्मबिन्दौ
२७
Jain Education International
सम्यक् तदधिकाख्यनम् ||४ ||६२ ॥ इति । सम्यग् अविपरीतरूपतया तेभ्यः साधारणगुणेभ्यः अधिका विशेषवन्तः ये गुणाः तेषामाख्यानं कथनम्, यथापञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ||५०// [हा० अष्टके १३ २] इति ॥४॥ तथा
अबोधेऽप्यनिन्दा ||५|| ६३|| इति ।
अबोधेऽपि अनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामप्यनिन्दा 'अहो मन्दबुद्धिर्भवान् य इत्थमाचक्षाणेष्वपि अस्मासु न बुध्यते वस्तुतत्त्वम्' इत्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चिद् बुभुत्सुः अपि सन् दूरं विरज्यत इति ॥५॥
तर्हि किंकर्तव्यमित्याह —
शुश्रूषाभावकरणम् || ६ ||६४|| इति ।
धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा तल्लक्षणो भावः परिणामः तस्य करणं निर्वर्तनं श्रोतुस्तैस्तैर्वचनैरिति, शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युत अनर्थसंभवः, पठ्यते च स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति [नीतिवाक्या० १०/१५९] ||६|| तथाभूयो भूय उपदेश: ॥ ७॥६५॥ इति ।
भूयो भूयः पुनः पुनः उपदिश्यते इति उपदेशः उपदेष्टुमिष्टवस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियन्ते दृढसंनिपातरोगिणां पुनः पुनः क्रियातिक्तादिक्वाथपानोपचारा इति ॥७॥ तथा
बोधे प्रज्ञोपवर्णनम् ॥८ ॥ ६६॥ इति ।
बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वा उपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं बुद्धिप्रशंसनम्, यथा नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ॥८॥ तथा
तन्त्रावतारः || ९ ||६७ ॥ इति ।
तन्त्रे आगमे अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेय:, आगमबहुमानश्चैवमुत्पादनीयः
For Private & Personal Use Only
द्वितीयोऽध्यायः
२७
www.jainelibrary.org