________________
सवृत्तिके धर्मबिन्दौ
२८
द्वितीयोऽध्यायः
परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥५१॥ उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥५२॥ अर्थादावविधानेऽपि तदभाव: परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ॥५३॥
तस्मात् सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥५४॥ शास्त्रयल इति शास्त्रे यत्नो यस्येति समासः,
पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥५५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥५६॥ यः श्राद्धो मन्यते मान्यान् अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥५७॥ यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणा: । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥५८॥ मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्त:करणरत्नस्य तथा शास्त्रं विदुर्बुधाः ॥५९॥
शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥६०॥ [योगबिन्दौ २२१-३०] अत्रैव इति मुक्तौ एव, इयमिति शास्त्रभक्तिः, तत्प्राप्त्यासन्नभावत इति मुक्तिप्राप्तिसमीपभावात् इति ॥९॥ तथा
प्रयोग आक्षेपण्या: ॥१०॥६८॥ इति । प्रयोगो व्यापारणं धर्मकथाकाले आक्षिप्यन्ते आकृष्यन्ते मोहात् तत्त्वं प्रति भव्यप्राणिनः अनयेत्याक्षेपणी, तस्याः कथायाः, सा च आचार-व्यवहार-प्रज्ञप्ति-दृष्टिवादभेदाच्चतुर्धा, तत्राचारो लोचा-ऽस्नानादिसाधुक्रियारूपः, व्यवहारः कथञ्चिदापनदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनम्, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति ॥१०॥ तथा
ज्ञानाद्याचारकथनम् ॥११॥६९।। इति । ज्ञानस्य श्रुतलक्षणस्य आचारः ज्ञानाचार:, आदिशब्दात् दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं
| २८
Jain Education International
For Private & Personal use only
www.jainelibrary.org