SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ २९ द्वितीयोऽध्यायः सवृत्तिके | प्रज्ञापनमिति समासः । तत्र ज्ञानाचारोऽष्टधा काल-विनय-बहुमानोपधाना-ऽनिह्नव-व्यञ्जना-ऽर्थ-तदुभयभेदलक्षणः, तत्र काल इति यो यस्य अङ्गप्रविष्टादेः धर्मबिन्दौ श्रुतस्य काल उक्तः तस्मिन्नेव तस्य स्वाध्यायः कर्त्तव्यो नान्यदा तीर्थकरवचनात्, दृष्टं च कृष्यादेः कालकरणे फलम्, विपर्यये तु विपर्यय इति १ । तथा श्रुतग्रहणं कुर्वता गुरोविनय: कार्यः, विनयो ह्यभ्युत्थान-पादधावनादिः, अविनयगृहीतं हि तदफलं भवति २ । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः ३, एतस्मिन् सति अक्षेपेणाविकलं श्रुतं भवति, अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति–एकस्य विनयो न बहुमानः १, अपरस्य बहुमानो न विनयः २, अन्यस्य विनयोऽपि बहुमानोऽपि ३, अन्यतरस्य न विनयो नापि बहुमान ४ इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम्, उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत् तत्र कार्यम्, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात् ४ । 'अनिवः' इति गृहीतश्रुतेनानिह्नवः कार्य:, यद् यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५ । तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किठें' [दशवै. १११इति वक्तव्ये 'पुनो कल्लाणमुक्कोसं' इत्याह, अर्थभेदस्तु यथा- 'आवंती केयावंती लोगसि विप्परामसंति' [आचा./५/१४७) इत्यत्राऽऽचारसूत्रे यावन्त: केचन लोके अस्मिन् पाषण्डिलोके विपरामृशन्ति' इत्यर्थाभिधाने 'आवन्तीजनपदे केया रज्जू: वन्ता लोकः परामृशति कूपे' इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दे यथा- 'धर्मो मलमुत्कृष्टः अहिंसा पर्वतमस्तके' इत्यादि,दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः,तभेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः,तदभावे च निरर्थिका दीक्षेति । १.इत्यादि L.॥२."वंजणमभिंदमाणो अवंतिमादपण अत्थे गुरुगो उ.....॥१९॥ वंजणं सुतं, अण्णहाकरणं भेदो, ण भिंदमा अभिंदमाणो. अविणासंतो त्ति भणितं होति. तेसु चेव वंजणेसु अण्णं अत्थं विकप्पयति, कह? जहा अवंतिमादपणे ति, अवंती केयावंती लोगंसि समणा य माहणा य विष्परामसंति [आचा. १।५।१४७॥] तिअवंति णाम जणवओ, केया रजु, वंती णाम पडिया कूवे, लोयंसि णाया जहा कूवे केया पडिता, ततो धावंति समणा भिक्खुगाइ, माहणा धिजाइया, ते समणमाहणा कूवे ओयरिउ पाणियमज्झे विविहं परामुसंति" इति निशीथचूर्णी पीठिकायाम् पृ.१३॥ "श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति । तत्र व्यञ्जनभेदो यथा 'धम्मो मंगलमुछिट्ट' इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोसं' इति। अर्थभेदस्तु यथा-"आवंती केयावंती लोगंसि विप्परामुसंति"[आचा.१।५।१४७] इत्यत्राचारसूत्रे 'यावन्तः केचन लोके अस्मिन् पाखण्डिलोके विपरामृशन्ति' इत्येवंविधार्थाभिधाने 'अवन्तिजनपदे केया रज्जुर्वान्ता पतिता लोकः परामृशति कूपें' इत्याह । उभयभेदस्तु द्वयोरपि याथात्म्योमर्दै यथा “धर्मो ममलमुत्कृष्टः अहिंसा पर्वतमस्तके"इत्यादि । दोषश्वात्र व्यञ्जनभेदेऽर्थभेदः, तद्देदे क्रियायाः भेदः, त दे मोक्षाभावः, तदभावे च निरर्थिका दीक्षेति" इति दशवकालिकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्ती तृतीयाध्ययने ।।३. केचनो इति सर्वेषु हस्तलिखितादर्शषु पाठः ॥४.निरर्थका J.K.II Education Intern al For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy