________________
सवृत्तिके | धर्मबिन्दौ |
दर्शनाचारोऽपि नि:शङ्कित-नि:काशित-निर्विचिकित्सा-ऽमूढदृष्टि-उपबृंहा-स्थिरीकरण-वात्सल्य-तीर्थप्रभावनाभेदादष्टधैव, तत्र नि:शङ्कित इति । शङ्कनं शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देश-सर्वशङ्कारहित इत्यर्थः, तत्र देशे शङ्का 'समाने जीवत्वे कथमेको भव्यः, अपरस्तु अभव्यः' इति शङ्कते, सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति, न पुनरालोचयति यथा- भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च
द्वितीयोऽध्यायः
१."निस्संकिय निकंखिय निम्वितिगिच्छा अमूढदिट्ठी य । उववह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥ निस्संकीत्यादि । निःशङ्कित इत्यत्र शङ्का शङ्कितम्, निर्गतं शद्वितं यतोऽसौ निःशक्ति: देश-सर्वशङ्कारहित इत्यर्थः। तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते । सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति। न पुनरालोचयति यथा- भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादय:, अहेतुग्राह्या भव्यत्वादय:, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति । उक्तं च"बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्त: प्राकृत: स्मृतः"[
॥ दृष्टेष्टाविरुद्धाच्चेति। उदाहरणं चात्र पेयापेयको यथावश्यके । ततश्च निःशक्तिो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्रधानविवक्षया दर्शनाचार उच्यते । अनेन दर्शन-दर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति । एवं शेषपदेष्वपि भावना कार्येति ।
तथा निष्कासितो देश-सर्वकासारहितः । तत्र देशकामा एकं दर्शनं काति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति । नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च । उदाहरणं चात्र राजामात्यौ यथावश्यक इति ।
विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा मतिविभ्रमो यतोऽसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति, न भविष्यति इति, क्रियायाः कृषीवलादिषूभयोपलब्धेः' इति विकल्परहितः, न विकल उपाय उपायवस्तुपरिनापको न भवतीति संजातनिश्चयो निर्विचिकित्स उच्यते..... यद्वा निर्विजगप्स: साधुजुगुप्सारहितः,.....। तथा अमूढदृष्टिश्च बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा स्वरूपान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः.....। एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधान: उपबृंहण-स्थिरीकरणे इति।.....उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद् विषीदतां सतां तत्रैव स्थापनम् ...........वात्सल्यं समानधार्मिकप्रीत्युपकारकरणम्, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति.....। गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथचि दख्यापनार्थः, एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्ते:
शून्यतापत्तिरिति गाथार्थः ।" इति दशवैकालिकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ तृतीयाध्ययने। २.हेतुग्राह्या अहेतुग्राह्याश्च तत्र L.Kमू. मध्ये नास्ति । Jain Education International
For Private & Personal use only
www.jainelibrary.org