SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मद्धान्त: प्राकृतः स्मृतः इत्युच्यते, अनेन भारहितः, तत्र देशकामः सवृत्तिके धर्मबिन्दौ ३१ बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाशिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्त: प्राकृतः स्मृतः ॥६१॥ [ ] दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च नि:शङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या १। तथा नि:काङ्क्षितो देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति २। विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति वा न वा, द्वितीयोऽध्यायः कृषीवलादिक्रियासूभयथाऽप्युपलब्धे:'इति कुविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिणापको न भवतीति सञ्जातनिश्चय इत्यर्थः, यद्वा निर्विर्जुगुप्स: साधुजुगुप्सारहित: ३, तथा अमूढदृष्टिः, बालतपस्वितपोविद्याद्यतिशयैर्न मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः। अधुना गुणप्रधान:- उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं ५, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनम् ६, वात्सल्यं समानधार्मिकजनोपकारकरणम् ७, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति ८, गुणप्रधानश्चायं निर्देशो गुणगुणिनो: कथञ्चिद्भेदख्यानपनार्थम्, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति । चारित्राचारोऽप्यष्टधा पञ्चसमिति-त्रिगुप्तिभेदात्, समिति-गुप्तिस्वरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविघ: बाह्याभ्यन्तरतप:षट्कद्वयभेदात्, तत्र अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥६२॥ प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः । स्वाध्याय इति तप: षट्प्रकारमाभ्यन्तरं भवति ॥६३॥ [प्रशम. १७५-१७६] १. निर्विजुगुप्स: L.J. | "विदुकुच्छत्ति व भण्णति सा पुण.....॥२५॥विदु साहू कुच्छति गरहति निन्दतीत्यर्थः, व इति बितियकप्पदरिसणे, भण्णइ त्ति भणियं होति । सा इति सा विदच्छा, पुण सद्दो विसेसणत्थे दहन्यो" इति निशीथचूणां पीठिकायाम् पृ. १६॥ "आगमे तु विचिकित्सा विद्वजगप्सा वेत्यभिहित तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः, तेषां जुगुप्सा निन्दा "इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ७।१८।पृ.९९।। “अथवा विद्वज्जुगुप्सा, विद्वांस: साधवो विदितसंसारस्वभावा: परित्यक्तसमस्तसकाः, तेषां जुगुप्सा निन्दा" इति आवश्यकसूत्रस्य षष्ठेऽध्ययने हरिभद्रसूरिविरचितायां वृत्तौ ॥ २. वृत्त्य L.II Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy