________________
सवृत्तिके धर्मबिन्दौ
३२
वीर्याचार: पुन: अनिद्भुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषट्त्रिंशद्विधे ज्ञान-दर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं प्रतिपत्तौ । च यथाबलं पालनेति ॥११।। तथा
निरीहशक्यपालना ॥१२॥७०।। इति । निरीहेण ऐहिक-पारलौकिकफलेषु राज्य-देवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचारादे: 'विहितमिदम्' इति बुद्धया पालना कार्येति च कथ्यते इति ॥१२॥ तथा
द्वितीयोऽध्यायः अशक्ये भावप्रतिपत्तिः ॥१३॥७१।। इति । अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि धृति-संहनन-काल-बलादिवैकल्याद् भावप्रतिपत्तिः, भावेन अंत:करणेन प्रतिपत्ति: अनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्तध्यानत्वादिति ॥१३॥ तथा
पालनोपायोपदेशः ॥१४ ॥७२॥ इति । एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्य अधिकगुण-तुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुणस्थानकोचितक्रियापरिपालनानुस्मरणस्वभावस्य चोपदेशो दातव्य इति ।।१४।।
फलप्ररूपणा ॥१५॥७३॥इति । अस्याचारस्य सम्यक्परिपालितस्य सत: फलम् इहैव तावदुपप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च परत्र च सुगतिजन्मोत्तमस्थानलाभ: परम्परया निर्वाणावाप्तिश्चेति यत् कार्यं तस्य प्ररूपणा प्रज्ञापना विधेयेति ॥१५॥ अत्रैव विशेषमाह
देवर्द्धिवर्णनम् ॥१६॥७४।। इति । देवानां वैमानिकानाम् ऋद्धः विभूते: रूपादिलक्षणाया वर्णनं प्रकाशनम्, यथा तत्रोत्तमा रूपसंपत् सस्थिति-प्रभाव-सुख-द्युति-लेश्यायोगः । ३२ १:विधज्ञान सं. L. २ अन्त:करणप्रतिपत्ति: Kमू०1।।
For Private & Personal use only
Jain Education International
www.jainelibrary.org