SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ३३ Jain Education International विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवह इत्यादि वक्ष्यमाणमेव ॥ १६ ॥ तथासुकुलागमनोक्तिः || १७ ।। ७५ ।। इति । 'देवस्थानाच्च्युतावपि विशिष्टे देशे विशिष्टे काले निष्कलङ्के अन्वये उदग्रे सदाचारेणाख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकम् अत्यन्तनिरवद्यं जन्म' इत्यादिर्वक्ष्यमाणलक्षणैव ||१७|| तथा कल्याणपरम्पराख्यानम् ||१८||७६ ।। इति । ततः सुकुलागमनादुत्तरं कल्याणपरम्परायाः 'तत्र सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितम् आमयेन' इत्यादिरूपायाः अत्रैव धर्मफलाध्याये वक्ष्यमाणायाः आख्यानं निवेदनं कार्यमिति ॥ १८ ॥ तथा असदाचारगर्हा ।।१९ ॥७७॥ इति । असदाचारः सदाचारविलक्षणो हिंसानृतादिर्दशविधः पापहेतुभेदरूप:, यथोक्तम् - हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ||६४|| [ शास्त्रवार्ता. ४ ] तस्य गर्हा असदाचारगर्हा, यथा न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो न मिथ्यात्वसमं तमः ॥ ६५ ॥ द्विषद् - विष- तमो - रोगैर्दु: खमेक्त्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ॥ ६६ ॥ वरं ज्वालाssकुले क्षिप्तो देहिनाऽऽत्मा हुताशने। न तु मिथ्यात्वसंयुक्तं जीवितव्यं कदाचन ॥६७॥ [ इति तत्त्वाश्रद्धानगर्हा । एवं हिंसादिष्वपि गर्हायोजना कार्या ॥१९॥ तथा 1 तत्स्वरूपकथनम् ||२० ॥ ७८॥ इति । तस्य असदाचारस्य हिंसादे: स्वरूपकथनम्, यथा प्रमत्तयोगात् प्राणिव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम्, मैथुनमब्रह्म, १,२. दृश्यतां सप्तमेऽध्याये ॥। ३. सप्तमेऽध्याये ॥। ४. एकत्र एकस्मिन् जन्मनीत्यर्थः ।। ५ 'प्राणव्यपरोपणं हिंसा, असदभिधानमनृतम्' इति तत्त्वार्थसूत्रे सप्तमेऽध्याये पाठः ॥ For Private & Personal Use Only | प्रथमोऽध्यायः ३३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy