SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ २५ Jain Education International अथ द्वितीयोऽध्यायः । व्याख्यातः प्रथमोऽध्यायः, साम्प्रतं द्वितीयो व्याख्यायते, विशेषसंबन्धश्चास्य स्वयमेव शास्त्रकृता भणिष्यत इति नेह दर्श्यते, एवमन्येष्वप्यध्यायेष्विति, तस्य चेदमादिसूत्रम् प्राय: सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ॥७॥ इति । प्रायो बाहुल्येन सद्धर्मबीजानि सद्धर्मस्य सम्यग्ज्ञान-दर्शन- चारित्ररूपस्य बीजानि कारणानि तानि चामूि दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥४६॥ [ योगदृष्टि० ३२] इति ॥ गृह गृहस्थेषु एवंविधेषु कुलक्रमागतानिन्द्यन्यायानुष्ठानादिगुणभाजनेषु अलं स्वफलावन्ध्यकारणत्वेन अत्यर्थं रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते, उक्तं च वपनं धर्मबीजस्य सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्यङ्कुरादि स्यात् फलसिद्धिस्तु निर्वृतिः ॥४७॥ [ चिन्ता - सच्छ्रुत्यनुष्ठान - देवमानुषसंपदः । क्रमेणाङ्कुर-सत्काण्ड-नाल - पुष्पसमा मताः ॥४८॥ [ कीदृशानि सन्ति रोहन्तीत्याह- विधिना देशनार्हबालादिपुरुषौचित्यलक्षणेन उप्तानि निक्षिप्तानि यथेति दृष्टान्तार्थ: बीजानि शालि - गोधूमादीनि सत्क्षितौ अनुपहतभूमौ विधिनोप्तानि सन्ति, प्रायोग्रहणादकस्मादेव पक्वतथाभव्यत्वे क्वचिन्मरुदेव्यादौ अन्यथाभावेऽपि न विरोध इति ||७|| अमुमेवार्थं व्यतिरेकत आह 1 1 For Private & Personal Use Only नाश यथाऽभूमौ प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः ||८|| इति ॥ बीजाश बीजोच्छेदो यथा अभूमौ ऊषरादिरूपायाम्, प्ररोह: अङ्कुराद्युद्भेदः बीजस्यैव, वा इति पक्षान्तरसूचकः, इह जगति निष्फलो धान्यादिनिष्पत्तिलक्षणफलविकलः, तथा सद्धर्मबीजानां उक्तलक्षणानां गुरुणा अनाभोगादिभिर्निक्षिप्यमाणानाम् अपात्रेषु अनीतिकारिषु लोकेषु विदुः जानते बुधा: नाशं निष्फलं वा प्ररोहमिति ॥८॥ आह-किमित्यपात्रेषु धर्मबीजनाशो निष्फलो वा प्ररोह: संपद्यते इत्याह द्वितीयोऽध्यायः २५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy