SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ २४ दुर्लभं दुरापं प्राप्य समासाद्य मानुष्यं मनुष्यजन्म, किमित्याह — विधेयम् अनुष्ठेयं सर्वावस्थासु हितम् अनुकूलं कल्याणमित्रयोगादि आत्मन: स्वस्य, यतः करोति अकाण्डे एव मरणानवसरे एव बाल्य - यौवन - मध्यमवयोऽवस्थारूपे इह मर्त्यलोके सर्वं पुत्र- कलत्र - विभवादि मृत्युः यमः, न किञ्चन मरणत्राणाकारणत्वेनावस्तुरूपमिति ||५|| दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः । करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन ॥५॥ सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैर्धर्मः कार्यो महात्मभिः ||६|| इति । सति विद्यमाने जगत्त्रितयवर्तिजन्तुजनितोपरमे एतस्मिन् मृत्यावेव असारासु मृत्युनिवारणं प्रति अक्षमासु संपत्सु धन-धान्यादिसंपत्तिलक्षणासु अविहिताग्रह: अकृतमूर्च्छः कीदृशीषु संपत्स्वित्याह- पर्यन्तदारुणासु विरामसमयसमर्पितानेकव्यसनशतासु, उच्चैः अत्यर्थं धर्म उक्तलक्षण: कार्यो विधेयः, कैरित्याह- महात्मभिः, महान् प्रशस्य आत्मा येषां ते तथा तैरिति ॥ ६६॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणंविवृतौ सामान्यतो गृहस्थधर्मविधिः प्रथमोऽध्यायः समाप्तः ||१|| १. विवृत्तौ J... Jain Education International For Private & Personal Use Only प्रथमोऽध्यायः २४ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy