________________
सवृत्तिके धर्मबिन्दौ
२३
[३४] गुणपक्षपातिता ॥५७॥ इति ।
गुणेषु दाक्षिण्य-सौजन्यौदार्य स्थैर्य - प्रियपूर्वाभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातिता बहुमान - तत्प्रशंसा - साहाय्यकरणादिनाऽनुकूला प्रवृत्तिः, गुणपक्षपातिनो हि जीवा बहुमानद्वारोपजातावन्ध्यपुण्यप्रबन्धसामर्थ्यान्नियमादिहामुत्र च शरच्छशधरकरनिकरगौरं गुणग्राममवश्यमवाप्नुवन्ति, तद्बहुमानाशयस्य चिन्तारत्नादप्यधिकशक्तियुक्तत्वात् ॥५७॥ तथा
[३५] ऊहापोहादियोग इति ॥५८॥ इति ।
ऊहश्चापोहश्च, आदिशब्दात् तत्त्वाभिनिवेशलक्षणो बुद्धिगुणः शुश्रूषा - श्रवण- ग्रहण - धारणा - विज्ञानानि च गृह्यन्ते, इत्यष्टौ बुद्धिगुणाः, तत ऊहापोहादिभिर्योगः समागमोऽनुष्ठेय इति, तत्र प्रथमतस्तावच्छ्रोतुमिच्छा शुश्रूषा, श्रवणमाकर्णनम्, ग्रहणं शास्त्रार्थोपादानम्, धारणा अविस्मरणम्, मोह-सन्देह-विपर्यासव्युदासेन ज्ञानं विज्ञानम्, विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविधेषु वितर्कणमूहः, उक्ति-युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसंभावनया व्यावर्तनमपोहः, अथवा सामान्यज्ञानमूहः विशेषज्ञानमपोहः, 'विज्ञानोहापोहविशुद्धम् इदमित्थमेव' इति निश्चयः तत्त्वाभिनिवेशः, एवं हि शुश्रूषादिभिर्बुद्धिगुणैरुपहितप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमाप्नोति, यदुच्यते—
] इति ॥
जीवन्ति शतश: प्राज्ञाः प्रज्ञया वित्तसंक्षये । न हि प्रज्ञाक्षये कश्चिद् वित्ते सत्यपि जीवति ॥४५॥ [ इतिशब्दः प्रस्तुतस्य सामान्यतो गृहस्थधर्मस्य परिसमाप्त्यर्थ इति ॥ ५८॥ इत्थं सामान्यतो गृहस्थधर्म उक्तः, अथास्यैव फलमाहएवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः । लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् ||४|| इति ।
एवम् उक्तन्यायेन यः स्वधर्म: गृहस्थानां संबन्धी धर्मः तेन संयुक्तं समन्वितम् अत एव सत् सुन्दरं गार्हस्थ्यं गृहस्थभावं करोति विधात यः कश्चित् पुण्यसंपन्नो जीवः लोकद्वयेऽपि इहलोक - परलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः, असौ सद्गार्हस्थ्यकर्त्ता धीमान् प्रशस्तबुद्धिः सुखं शर्म आप्नोति लभते अनिन्दितं शुभानुबन्धितया सुधियामगर्हणीयमिति ||४||
यत एवं ततोऽत्रैव यत्नो विधेय इति श्लोकद्वयेन दर्शयन्नाह -
१ धर्मार्थसंयुक्तं J.।।
Jain Education International
For Private & Personal Use Only
प्रथमोऽध्यायः
२३
www.jainelibrary.org