SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ २२ प्रथमोऽध्यायः कः कालः कानि मित्राणि को देश: कौ व्ययागमौ? । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहमहः ॥४१॥ [ ॥५२॥ तथा [३०] अनुबन्धे प्रयत्नः ॥५३।। इति । अनुबन्धे उत्तरोत्तरवृद्धिरूपे धर्मार्थकामानां प्रयल: यत्नातिरेक: कार्य:, अनुबन्धशून्यानि हि प्रयोजनानि वन्ध्याः स्त्रिय इव न किञ्चिद् गौरवं लभन्ते, अपि तु हीलामेवेति ॥५३॥ तथा [३१] कालोचितापेक्षा ॥५४॥ इति । यद्यत्र काले वस्तु हातुमुपादातुं वोचितं भवति तस्यात्यन्तनिपुणबुद्ध्या पर्यालोच्य अपेक्षा अङ्गीकारः कर्त्तव्या, दक्षलक्षणत्वेनास्याः सकलश्रीसमधिगमहेतुत्वात्, अत एव पठ्यते - य: काकिणीमप्यपथप्रपन्नामन्वेषते निष्कसहमतुल्याम् । कालेन कोटीष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः॥४२॥ [ ] मुक्तहस्त इति मुत्कलहस्तः ।।५४।। तथा [३२] प्रत्यहं धर्मश्रवणम् ॥५५।। इति । प्रत्यहं प्रतिदिवसं धर्मस्य इहैव शास्त्रे वक्तुं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रवणम् आकर्णनम्, धर्मशास्त्रश्रवणस्यात्यन्तगुणहेतुत्वात्, पठ्यते चक्लान्तमुपोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥४३॥ [ ] इति ॥५५।। तथा [३३] सर्वत्रानभिनिवेश: ।।५६।। इति । सर्वत्र कार्ये प्रवर्त्तमानेन बुद्धिमता अनभिनिवेश: अभिनिवेशपरिहार: कार्यः, नीतिमार्गमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भोऽभिनिवेश:, नीचलक्षणं चेदम्, यनीतिमतीतस्यापि कार्यस्य चिकीर्षणम्, पठन्ति च दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणैर्व्यसनिभिर्रायस्यते मत्स्यैः ॥४४॥ [ ]॥५६॥ तथा१ प्रतिषु पाठा:-रायस्यते Jमू. । 'रायास्यते सं० K.L.II Jain Education International Far Private Personal use only wow.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy