________________
सवृत्तिके
धर्मबिन्दौ
२१
पापस्य भाजनं सिंह इव सिन्धुरवधात्, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम्, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामा-ऽर्थयोर्मतिमता यतितव्यम्, यस्त्वर्थ-कामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवासः, इति तस्यार्थ-कामयोरप्याराधनं श्रेय इति । तथा ता दात्विक-मूलहर-कदर्याणां नासुलभः प्रत्यवायः, तत्र य: किमप्यसंचिन्त्यो(त्यो)त्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु क्वचिदपि व्ययते स कदर्यः, तादात्विक-मूलहरयोरायत्यां नास्ति कल्याणम्, किन्त्वर्थभ्रंशेन धर्म-कामयोर्विनाश एव, कदर्यस्य त्वर्थसंग्रहो प्रथमोऽध्यायः राज-दायाद-तस्कराणामन्यतमस्य निधिः, न तु धर्म-कामयोर्हेतुः, अत एतत्पुरुषत्रयप्रकृतिपरिहारेण मतिमता अर्थोऽनुशीलनीयः, तथा ना जितेन्द्रियस्य कापि कार्यसिद्धिरस्ति, न कामासक्तस्य समस्ति चिकित्सितम्, न तस्य धनं धर्मः शरीरं वा यस्य स्त्रीष्वत्यन्तासक्तिः, विरुद्धकामवृत्तिर्न चिरं नन्दति, अतो धर्मार्थाबाधनेन कामे प्रवर्तितव्यमिति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्टमिति ॥५०॥ तथा
अन्यतरबाधासंभवे मूलाबाधा ॥५१॥ इति । अमीषां धर्मार्थकामानां मध्ये अन्यतरस्य उत्तरोत्तरलक्षणस्य पुरुषार्थस्य बाधासंभवे कुतोऽपि विषमप्रघट्टकवंशाद् विरोधे संपद्यमाने सति, किं कर्त्तव्यमित्याह- मूलाबाधा, यो यस्य पुरुषार्थस्य 'धर्मार्थकामाः त्रिवर्गः' इति क्रममपेक्ष्य मूलम् आदिमस्तस्य अबाधा अपीडनम्, तत्र कामलक्षणपुरुषार्थबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात्, कामार्थयोस्तु बाधायां धर्म एव रक्षणीयः, धर्ममूलत्वादर्थकामयोः, अत एवोक्तम्धर्मश्चेन्नावसीदेत कपालेनापि जीवतः। आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥४०॥ [ ]॥५१॥ इति ।। तथा
[२९] बलाबलापेक्षणम् ।।२८ ॥५२।। इति । इह बुद्धिमता मनुजेन सर्वेष्वपि कार्येषु प्रवृत्तिमादधता सता बलस्य द्रव्य-क्षेत्र-काल-भावकृतस्य आत्मसामर्थ्यस्य अबलस्य च तद्विलक्षणस्य अपेक्षणम् आलोचनम् अङ्गीकर्तव्यम्, अयथाबलमारम्भस्य क्षयसंपदेकनिमित्तत्वात्, अत एव पठ्यते च१. शरीरं च Lसं. ली०॥ २:वशात् निरोधे LJ. |
Jain Education International
For Private & Personal use only
www.jainelibrary.org