SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ २० प्रथमोऽध्यायः लोक: रवल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥३७॥ [प्रशम.१३१] ॥४६|| तथा हीनेषु हीनक्रमः ॥४७।। इति । हीनेषु जाति-विद्यादिभिः गुणैः स्वकर्मदोषान्नीचतां गतेषु लोकेषु हीनक्रम: लोकयात्राया एव तुच्छताकरणरूपः, हीना अपि लोका: किञ्चिदनुवर्तनीया इत्यर्थः, ते हि हीनगुणतयाऽऽत्मानं तथाविधप्रतिपत्तेरयोग्यं संभावयन्तो यया कयाचिदपि उत्तमलोकानुवृत्त्या कृतार्थं मन्यमानाः प्रमुदितचेतसो भवन्तीति ॥४७॥ तथा [२६] अतिसङ्गवर्जनम् ॥४८॥ इति । अतिसङ्गस्य अतिपरिचयलक्षणस्य सर्वै रेव सार्द्धं वर्जनं परिहरणम्, यत: अतिपरिचयाद् भवति गुणवत्यप्यनादर: पठ्यते चअतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्राय: । लोक: प्रयागवासी कूपे स्नानं सदा कुरुते ॥३८॥ [ ] ॥४८|| तथा [२७] वृत्तस्थज्ञानवृद्धसेवा ॥४९।। इति । वृत्तम् असदाचारनिवृत्तिः सदाचारप्रवृत्तिश्च , ज्ञानं पुन: हेयोपादेयवस्तुविभागविनिश्चयः, तत: वृत्ते तिष्ठन्तीति वृत्तस्थाः, ज्ञानेन वृद्धा महान्त: ज्ञानवृद्धाः, वृत्तस्थाश्च ते ज्ञानवृद्धाश्च वृत्तस्थज्ञानवृद्धाः, तेषां सेवा दरिद्रेश्वरसेवाज्ञातसिद्धाऽऽराधना, सम्यग्ज्ञान-क्रियागुणभाजो हि पुरुषाः सम्यक् सेव्यमाना नियमात् सदुपदेशादिफलैः फलन्ति, यथोक्तम्उपदेश: शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥३९॥ [शास्त्रवा"०७] ॥४९॥ तथा [२८] परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्तिः ॥५०॥ इति । इह धर्मार्थकामास्त्रिवर्गः, तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यत: सर्वप्रयोजनसिद्धिः सोऽर्थः, आभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीति: स कामः, ततः परस्परस्य अन्योन्यस्य अनुपघातेन अपीडनेन, अत एव अन्योन्यानुबद्धस्य परस्परानुबन्धप्रधानस्य त्रिवर्गस्य प्रतिपत्ति: आसेवनम्, तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्?, धर्मातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं १. एव । तुच्छ' KJ. | एव ॥ तुच्छ L. ० ।। २. विभागनिश्चय: J. विना ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy