________________
सवृत्तिके धर्मबिन्दौ
१९
सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च
अजीर्णप्रभवा रोगास्तत्राजीर्णं चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथापरम् ||३३|| आमे तु द्रवगन्धित्वं विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गोऽत्र रसशेषे तु जाड्यता ||३४|| [ द्रवगन्धित्वमिति द्रवस्य श्लथस्य कुथितंतक्रादेरिव गन्धो यस्यास्ति तत् तथा, तद्भावस्तत्त्वमिति ।
मलवातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तिलिङ्गानि ||३५||
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते मरणं चाऽप्यजीर्णतः ||३६|| [ सुश्रुतसंहिता १।४६ |५०४ ] प्रसेक इति अधिकनिष्ठीवनप्रवृत्ति:, सदनमिति अङ्गग्लानिः इति ||४३|| तथा
बलापाये प्रतिक्रिया ॥ ४४ ॥ इति ।
बलस्य शरीरसामर्थ्यलक्षणस्य अपाये कथञ्चिद् हासे सति प्रतिक्रिया तथाविधात्यन्तपरिश्रमपरिहारेण स्निग्धाल्पभोजनादिना च प्रकारेण प्रतिविधानं ] इति वचनात्, बलमुचितमपातयता सता सर्वकार्येषु यतितव्यम्, अथ कथञ्चित् कदाचिद्बलपातोऽपि ] इति वचनात् सद्य एवासौ प्रतिविधेयो न पुनरुपेक्षितव्य इति ॥४४॥ तथा[२४] अदेशकालचर्यापरिहारः || ४५ || इति ।
देशकाल: प्रस्ताव:, तत्र चर्या देशकालचर्या, तत्प्रतिषेधात् अदेशकालचर्या, तस्याः परिहारः, अदेशकालचर्यापरो हि नरः तथाविधचौराद्युपद्रवव्रातविषयतया इहलोक-परलोकानर्थयोर्नियमादास्पदीभवति ॥४५॥ तथा
[२५] यथोचितं लोकयात्रा ||४६ || इति ।
यथोचितं या यस्योचिता लोकयात्रा लोकचित्तानुवृत्तिरूपो व्यवहारः सा विधेया, यथोचितलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतापरिणामापादनेन स्वलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि सम्यगाचारस्य स्वगतस्य लघुत्वमेवोपनीतं स्यादिति, उक्तं च१. तक्रादेरिति J.II २. व्यक्तलि मु.॥ ३. J१. K१. विना यथोचितलो J.K.L.लीं० ॥
बलापायस्यैव, बलमूलं हि जीवितम् [ कश्चिद् भवेत् तदा विषं व्याधिरुपेक्षित: [
]
Jain Education International
For Private & Personal Use Only
प्रथमोऽध्यायः
१९
www.jainelibrary.org