________________
सवृत्तिके धर्मबिन्दौ
24
] इति ।
औचित्यमेकमेकत्र गुणानां राशिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ||३१|| [ कथं तदौचित्याबाधनमित्याह —— उत्तमनिदर्शनेन, अतिशयेन शेषलोकादूर्ध्वं वर्त्तन्त इत्युत्तमाः, ते च प्रकृत्यैव परोपकरण-प्रियभाषणादिगुणमणिमकराकरोपमाना मानवाः, तेषां निदर्शनम् उदाहरणं तेन, उत्तमनिदर्शनानुसारिणो हि पुरुषा उदात्तात्मतया न स्वप्नेऽपि विकृतप्रकृतयः संभवन्ति । इयं च देवादिप्रतिपत्तिर्नित्यमेवोचिता, विशेषतश्च भोजनावसर इति ||४०|| तथा
[२१] सात्म्यत: कालभोजनम् । ४१ ।। इति । पा नाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखिर्त्वा यावकल्पन्ते तत् सात्म्यमिति गीयते ||३२|| [
] इति
एवंलक्षणात् सात्म्यात् काले बुभुक्षोदयावसरलक्षणे भोजनम् अन्नोपजीवनं कालभोजनम्, अयमभिप्रायः - आजन्म सात्म्येन भुक्तं विषयं भवति, परमसात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यम्, सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत्, सुशिक्षितो हि विषतन्त्रज्ञो म्रियते एव कदाचिद्विषात्, तथा अक्षुधितेनामृतमप्युपभुक्तं भवति विषम्, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ॥४१॥ तथा
[२२] लौल्यत्यागः ॥ ४२ ॥ इति ।
सात्म्यतः कालभोजनेऽपि लौल्यस्य आकाङ्क्षातिरेकादधिकभोजनलक्षणस्य त्यागः, यतः यो मितं भुङ्क्ते स बहु भुङ्क्ते, अतिरिक्तभुक्तं हि उद्वामन-हादन-मारणानामन्यतमदसंपाद्य नोपरमं प्रतिपद्यते, तथा भुञ्जीत यथा सायमन्येद्युश्च न विपद्यते वह्निः, न भुक्तेः परिमाणे सिद्धान्तोऽस्ति, वन्यभिलाषायत्तं हि भोजनम्, अतिमात्रभोजी देहमग्निं च विधुरयति, तथा दीप्तोऽग्निर्लघुभोजनाद् देहबलं क्षपयति, अत्यशितुर्दुःखेन परिणामः, श्रमार्त्तस्य पानं भोजनं वा नियमात् ज्वराय छर्दिषे वा स्यात् ॥४२॥ तथा
[२३] अजीर्णे अभोजनम् ||४३|| इति ।
प्रागुपभुक्तस्य आहारस्य अजीर्णे अंजरणेऽजीर्णे वा तत्र परिपाकमनागते अभोजनं सर्वथा भोजनपरिहार:, अजीर्णे भोजने हि अजीर्णस्य १. त्वायैव कल्पन्ते Kसं. ॥ २. इति नास्ति J ॥ ३ तमद्वासंपाद्य K. । तमत् संपाद्य L. लीं० ॥ ४. अजरे जीर्णे KI अजरणे जीर्णे L.II ५. अजीर्णभोजने K. L. II
For Private & Personal Use Only
Jain Education International
| प्रथमोऽध्यायः
१८
www.jainelibrary.org