SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः सवृत्तिके तस्यैव भर्तव्यस्य अपायेभ्य: अनर्थेभ्य: ऐहिकामुष्मिकेभ्यः परिरक्षा सर्वतस्त्राणम्, तत्र उद्योगो महानुद्यमः, एवं हि भर्तव्यान् प्रति तस्ट धर्मबिन्दौ । नाथत्वं स्याद् यदि सोऽलब्धलाभलक्षणं योगं लब्धरक्षारूपं च क्षेमं कर्तुं क्षम: स्यात्, योग-क्षेमकरस्यैव नाथत्वादिति ॥३७॥ तथा [१९] गर्दै ज्ञान-स्वगौरवरक्षे ॥३८॥ इति। १७ गर्दै गर्हणीये कुतोऽपि लोकविरुद्धाद्यनाचारासेवनान्निन्दनीयतां प्राप्ते भर्तव्ये सामान्यतो वा सर्वस्मिन् जने किं विधेयमित्याह—ज्ञानं संशय-विपर्यया-ऽनध्यवसायपरिहारेण यथावत् स्वरूपनिश्चयः, स्वगौरवक्षा, स्वेन आत्मना गौरवं पुरस्करणं स्वगौरवं तस्य रक्षा निवारणम् , ततो ज्ञानं च स्वगौरवरक्षा च ज्ञान-स्वगौरवरक्षे कर्तव्ये, गर्यो ह्यर्थः सम्यग् ज्ञातव्यः प्रथमतः, ततोऽनुमतिदोषपरिहाराय सर्वप्रकारैर्न पुरस्कारस्तस्य कर्त्तव्य इति ॥३८॥ तथा [२०] देवा-ऽतिथि-दीनप्रतिपत्तिः ॥३९॥ इति ।। दीव्यते स्तूयते भक्तिभरनिर्भरामप्रभुप्रभृतिभिर्भव्यैरनवरतमिति देवः, स च क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः, तस्यैवैतानि नामानिअर्हनजोऽनन्तः शम्भुर्बुद्धस्तमोऽन्तक इति । न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो येषां ते अतिथयः, यथोक्तम् तिथिपर्वोत्सवा: सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥३०॥[ ] दीना: पुन: दीङ् क्षये (पा.धा.११५९] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तयः, तत: देवातिथिदीनानां प्रतिपत्ति: उपचार: पूजा-उन्नपानदानादिरूपः देवा-ऽतिथि-दीनप्रतिपत्तिः ॥३९॥ तत्र च तदौचित्याबाधनमुत्तमनिदर्शनेन ॥४०॥ इति । तेषां देवादीनामौचित्यं योग्यत्वं यस्य देवादेरुत्तम-मध्यम-जघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य अबाधनम् अनुल्लङ्घनम्, तदुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति, यत उक्तम्१. लक्षणं भरणं लब्धरक्षारूपं L.K. ली. ॥ २."क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेषो देवः ॥६६।। तस्यैवैतानि खलु विशेषनामानि-अर्हनजोऽनन्तः शम्भुर्बुद्धस्तमोऽन्तक इति ।।६७।" इति नीतिवाक्यामृते पञ्चविंशे दिवसानुष्ठानसमुद्देशे । Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy