________________
प्रथमोऽध्यायः
सवृत्तिके | प्रदत्वात् सर्वप्रवृत्तीनामिति ॥३३॥ तथाधर्मबिन्दौ
[१८] भर्तव्यभरणम् ॥३४॥ इति । भर्तव्यानां भर्तुं शक्यानां मातापितृ-समाश्रितस्वजनलोक-तथाविधभृत्यप्रभृतीनां भरणं पोषणं भर्तव्यभरणम् । तत्र त्रीणि अवश्यं भर्तव्यानिमातापितरौ सती भार्या अलब्धबलानि चापत्यानि, यत उक्तम्
वृद्धौ च मातापितरौ सती भार्यां सुतान् शिशून् । अप्यकर्मशतं कृत्वा भर्तव्यान् मनुरब्रवीत् ॥२८॥ [मनुस्मृतौ ११।११] विभवसंपत्तौ चान्यान्यपि, अत्राप्युक्तम्
चत्वारि ते तात! गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । सखा दरिद्रो भगिनी व्यपत्या ज्ञातिश्च वृद्धो विधन: कुलीनः ॥२९॥ [महाभारते उद्योगपर्वणि ५।३३।५९] इति ॥३४॥ तथा
यथोचितं विनियोगः ॥३५।। इति । तस्य भर्तव्यस्य भृतस्य सतः यथोचितं यो यत्र धर्मे कर्मणि वा समुचित: तस्य तत्र विनियोग: व्यापारणम् । अव्यापारितो हि परिवार: समुचितानुष्ठानेषु निर्विनोदतया द्यूतादिव्यसनमप्यभ्यस्येत् निष्फलशक्तिक्षयाच्चाकिञ्चित्करत्वेनावस्त्वपि स्यात्, एवं चासौ नानुगृहीतः स्यादपि तु विनाशित इति ॥३५।। तथा
तत्प्रयोजनेषु बर्द्धलक्ष्यता ॥३६।। इति । तस्य भर्तव्यस्य प्रयोजनेषु धर्मार्थकामगोचरेषु चित्ररूपेषु बद्धलक्ष्यता नित्योपयुक्तचित्तता, ते हि तस्मिंश्चिन्ताकरे नित्यं निक्षिप्तात्मानः तैनाचिन्त्यमानप्रयोजनाः सीदन्तः सन्तोऽप्रसन्नमनस्कतया न स्वनिरूपितकार्यकरणक्षमाः संपद्यन्ते इति ॥३६॥ तथा
अपायपरिरक्षोद्योगः ॥३७॥ इति । १. व्या मनु J.K. || "वृद्धौ च माता-पितरौ साध्वी भार्या शिशुः सुतः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥११।। इति मुद्रितायां मनुस्मृतौ एकादशेऽध्याये ॥२."चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥” इति महाभारते पाठः ।। ३.निष्फलं K. || ४: लक्षता J१. K१. DII ५ तेन चिन्त्य इति JF.K.Lमू. प्रतिषु पाठः। सं. Lसं.मध्ये तु तेनाचिन्त्य इति पाठः ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org