SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १५ प्रथमोऽध्यायः संसर्ग: सदाचारैः ॥३०॥ इति । प्रतीतार्थमेव, असदाचारसंसर्गवर्जनेऽपि यदि सदाचारसंसर्गो न स्यात् तदा न तथाविधा गुणवृद्धि: संपद्यते इत्येतत् सूत्रमुपन्यस्तम्, उक्तं चैतदर्थानुवादियदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥२४॥ [ ] इति ।३०॥ तथा - [१६] मातापितृपूजा ॥३१।। इति । मातापित्रो: जननी-जनकयो: पूजा त्रिसन्ध्यं प्रणामकरणादि, यथोक्तम्पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥२५।। [योगबि० १११] अस्येति माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२६॥ [योगबि० ११०] इति श्लोकोक्तस्य गुरुवर्गस्य । अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने नावर्णश्रवणं क्वचित् ॥२७॥ [योगबि०११२] ॥३१॥ अथ मातापितृविषयमेवान्यं विनयविशेषमाहआमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ॥३२॥ इति । आमुष्मिका: परलोकप्रयोजना योगा देवतापूजनादयो धर्मव्यापारा आमुष्मिकयोगास्तेषां कारणं स्वयमेवामुष्मिकयोगान् मातापित्रो: कुर्वतोर्हेतुकर्तृभावेन नियोजनम्, यथा नातः परं भवद्भ्यां कुटुम्बकार्येषु किञ्चिदुत्सहनीयम्, केवलं धर्मकर्मप्रतिबद्धमानसाभ्यामनवरतं भाव्यमिति । तथा तदनुज्ञया माता-पितृजनानुमत्या प्रवृत्ति: सकलैहिका-ऽऽमुष्मिकव्यापारकरणम् । तथा प्रधानस्य वर्ण-गन्धादिभिः सारस्य अभिनवस्य च तत्कालसंपन्नस्य पुष्प-फल-वस्त्रादेर्वस्तुन: उपनयनं ढौकनं मातापित्रोरेव । तथा तद्भोगे मातापितृभोगे अन्नादीनां भोग: स्वयमासेवनम्, अत्रापवादमाहअन्यत्र अन्तरेण तदनुचितात् तयोः प्रकृतयोरेव मातापित्रोरनुचितात् कुतोऽपि व्रतादिविशेषादिति ॥३२॥ तथा [१७] अनुद्वेर्जनीया प्रवृत्तिः ॥३३।। इति । स्वपक्ष-परपक्षयोः अनुद्वेजनीया अनुद्वेगहेतुः प्रवृत्ति: काय-वाङ्-मनश्चेष्टारूपा, परोद्वेगहेतोहि पुरुषस्य न क्वापि समाधिलाभोऽस्ति, अनुरूपफल१.तथाचोक्तम् ।. ॥ २."तत्प्रयोजको हेतुश्च ।१।४१५५।। कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्” इति पाणिनीयव्याकरणस्य सिद्धान्तकौमुद्याम् । ३. जनी प्रवृत्ति: १. K१०॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy