________________
सवृत्तिके
धर्मन्दि
१४
'यस्तु 'वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥ २० ॥ २५ ॥ [ [१२] प्रसिद्धदेशाचारपालनम् ।। २६ ।। इति । प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजना-ऽऽच्छादनादिविचित्रक्रियात्मकस्य पालनम् अनुवर्त्तनम्, अन्यथा तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति । पठन्ति चात्र लौकिकाः— यद्यपि सकलां योगी छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारं मनसाऽपि न लङ्घयेत् ॥ २१॥ [
] इति । तथा[१३] गर्हितेषु गाढमप्रवृत्तिः ||२७|| इति । गर्हितेषु लोक-लोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्य-मांससेवन - पररामाभिगमनादिषु पापस्थानेषु गाढम् अत्यर्थम् अप्रवृत्तिः मनोवाक्कायानामनवतारः । आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य महन्माहात्म्यमुत्पद्यते, यथोक्तम्
नकुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||२२|| [महाभारते उद्योगपर्वणि ५। ३४ ३९ ], यतः - निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ॥ २३ [ ] २७॥ तथा[१४] सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु ||२८|| इति ।
सर्वेषु जघन्योत्तममध्यमभेदभिन्नेषु प्राणिषु अवर्णवादस्य अप्रसिद्धिप्रख्यापनरूपस्य त्यागः परिहारः कार्यः, विशेषतः अतिशयेन राजादिषु राजा - ऽमात्य-पुरोहितादिषु बहुजनमान्येषु, सामान्यजनापवादे हि स्वस्य द्वेष्यभावो भूयानाविर्भावितो भवति, यत उच्यते- नं परपरिवादादन्यविद्वेषणे परं भैषजमस्ति [नीतिवाक्या० १६ । १२] । राजादिषु तु वित्त- प्राणनाशादिरपि दोषः स्यादिति ॥२८॥ तथा
[१५] असदाचारैरसंसर्गः ॥ २९ ॥ इति ।
असदाचारैः इहलोक-परलोकयोः अहितत्वेन असन् असुन्दरः आचारः प्रवृत्तिर्येषां ते तथा, ते च द्यूतकारादयः, तै: असंसर्गः असंबन्ध:, प्रदीपनका ऽशिव-दुर्भिक्षोपहतदेशादीनामिव तेषां दूरतो वर्जनमित्यर्थः ॥ २९ ॥ एतदेव व्यतिरेकत आह
आयव्ययमनालोच्य
१ श्रमणायते K । २. रूढिसमागतस्य J ॥ ३. दिचित्र ]. विना ।। ४. लोकाः J ॥ ५ दन्यद् वि मु० ॥ ६ प्राणादिनाशादि K
For Private & Personal
Jain Education Internationa
] तथा
प्रथमोऽध्यायः
१४
www.jainelibrary.org