SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः अनेकनिर्गमादिवर्जनम् ॥२३।। इति । अनेके बहवः ये निर्गमा: निर्गमद्वाराणि, आदिशब्दात् प्रवेशद्वाराणि च, तेषां वर्जनम् अकरणम्, अनेकेषु हि निर्गमादिषु अनुपलक्ष्यमाणनिर्गम-प्रवेशानां तथाविधलोकानामापाते सम्यगृहरक्षाऽभावेन स्त्र्यादिजनस्य विभवस्य च विप्लव एव स्यात्, निबिडतरगृहद्वाररक्षयैव तेऽनवकाशा भवन्ति, परिमितप्रवेश-निर्गमं च गृहं सुखरक्षं भवतीति ॥२३।। तथा [१०] विभवाद्यनुरूपो वेषो विरुद्धत्यागेन ॥२४॥ इति । विभवादीनां वित्त-वयो-ऽवस्था-निवासस्थानादीनामनुरूप: लोकपरिहासाधनास्पदतया योग्यः वेष: वस्त्रादिनेपथ्यलक्षण: विरुद्धस्य जङ्घार्दोद्घाटन-शिरोवेष्टनाञ्चलदेशोर्ध्वमुखन्यसना-ऽत्यन्तगाढानिकालक्षणस्य विटचेष्टास्पष्टतानिमित्तस्य वेषस्यैव त्यागेन अनासेवनेन, प्रसन्ननेपथ्यो हि पुमान् मङ्गलमूर्तिर्भवति, मङ्गलाच्च श्रीसमुत्पत्तिः, यथोक्तम् - श्रीर्मङ्गलात् प्रभवति प्रागल्भ्याच्च प्रवर्द्धते । दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥१७॥ [महाभारते उद्योगपर्वणि ५।३५/४४] मूलमित्यनुबन्धम्, प्रतितिष्ठतीति प्रतिष्ठां लभते ॥२४॥ तथा [११] आयोचितो व्ययः ॥२५।। इति । आयस्य वृद्धयादिप्रयुक्तधन-धान्याधुपचयरूपस्य उचित: चतुर्भागादितया योग्यः वित्तस्य व्यय: भर्तव्यभरण-स्वभोग-देवा - ऽतिथिपूजनादिप्रयोजनेषु विनियोजनम्, तथा च नीतिशास्त्रम् पा दमायानिधिं कुर्यात् पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥१८॥ तथाआयादर्द्व नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१९॥ [ ] आयानुचितो हि व्ययो रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थं पुरुषं करोति, पठ्यते च । १'प्रागल्यात् संप्रवर्धते' इति महाभारते पाठः ।। २ देवतातिथि 1. ॥ ३.घट्टयेत् J. । कल्पयेत् Lसं.। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy