________________
सवृत्तिके धर्मबिन्दौ
१२
[९] स्थाने गृहकरणम् ।।१९।। इति । स्थाने वक्ष्यमाणलक्षणास्थानविलक्षणे ग्राम-नगरादिभागे गृहस्य स्वनिवासस्य करणं विधानमिति ॥१९॥ अस्थानमेव व्यनक्ति
अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च ॥२०॥ इति । तत्राऽतिप्रकटम् असन्निहितगृहान्तरतयाऽतिप्रकाशम्, अतिगुप्तं गृहान्तरैरेव सर्वतोऽतिसन्निहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नम्, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-अस्थानम् अनुचितं गृहकरणस्य, तथा अनुचितप्रातिवेश्यं च, प्रतिवेशिनः प्रथमोऽध्यायः सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्यम्, अनुचितं द्यूतादिव्यसनोपहततया धार्मिकाणामयोग्यं प्रातिवेश्यं यत्र तदनुचितप्रातिवेश्यम्, च: समुच्चये, किं पुन: कारणमतिप्रकटादि अस्थानमिति?, उच्यते-अतिप्रकटे प्रदेशे गृहं क्रियमाणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुन: सर्वतो गृहान्तरैरतिनिरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु च दु:खनिर्गम-प्रवेशं भवति, अनुचितप्रातिवेश्यत्वे पुन: संसर्गजा दोष-गुणा भवन्ति [ ] इति वचनात् कुशीलप्रातिवेशिकलोकालाप-दर्शन-सहवासदोषवशात् स्वत: सगुणस्यापि जीवस्य निश्चितं गुणहानिरुत्पद्यते इति तनिषेधः ॥२०॥ स्थानेऽपि गृहकरणे विशेषविधिमाह
लक्षणोपेतगृहवासः ॥२१॥ इति । लक्षणैः प्रशस्तवास्तुस्वरूपसूचकैर्बहलदूर्वा-प्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादजलोद्गम-निधानादियुक्तक्षितिप्रतिष्ठितत्व-वेधविरहादिभि: उपेतं समन्वितम्, तच्च तद् गृहं च, तत्र वास: अवस्थानम्, निर्लक्षणे हि गृहे वसतां सतां विभवविनाशादयो नानाविधा जनप्रसिद्धा एव दोषा: संपद्यन्ते, गृहलक्षणानामेव समीहितसिद्धौ प्रधानसाधनत्वात् ।।२१।। ननु कथं गृहलक्षणानामेव नि:संशयोऽवगम: ? इत्याह
निमित्तपरीक्षा ॥२२॥ इति । निमित्तैः शकुन-स्वप्नोपश्रुतिप्रभृतिभिः अतीन्द्रियार्थपरिज्ञानहेतुभिः परीक्षा, परीति सर्वतः सन्देह-विपर्यया-ऽनध्यवसायविज्ञानदोषपरिहारेण ईक्षणम् अवलोकनं गृहलक्षणानां कार्यमिति ॥२२॥ तथा१ वचनादकुलीनप्राति "..
Jain Education International
For Privale & Personal use only
www.jainelibrary.org