SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १० प्रथमोऽध्यायः दृष्टाश्च प्रत्यक्षत एव अवलोकिताः, अदृष्टाश्च अनुमानागमगम्याः, ताश्च ता बाधाश्च उपद्रवाः, दृष्टादृष्टबाधास्ताभ्यो भीतता भयं सामान्यतो गृहस्थधर्म इति, तदा च तद् भयं चेतसि व्यवस्थापितं भवति यदि यथाशक्ति दूरत एव तत्कारणपरिहारः कृतो भवति, न पुनरन्यथा, तत्र दृष्टबाधाकारणानि अन्यायव्यवहरण-द्यूतरमण-पररामाभिगमनादीनि इहलोकेऽपि सकललोकसमुपलभ्यमाननानाविधविडम्बनास्थानानि, अदृष्टबाधाकारणानि पुनर्मद्य-मांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्ति, किं भणितं भवति ? दृष्टादृष्टबाधाहेतुभ्यो दूरमात्मा व्यावर्त्तनीय इति ॥१३॥ तथा [४] शिष्टचरितप्रशंसनम् ॥१४।। इति । शिष्यन्ते स्म शिष्टा: वृत्तस्थ-ज्ञानवृद्धपुरुषविशेषसंनिधानोपलब्धविशुद्धशिक्षा मनुजविशेषाः, तेषां चरितम् आचरणं शिष्टचरितम्, यथालोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥९॥ सर्वत्र निन्दासत्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत् संपदि नम्रता ॥१०॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् ॥११॥ असद्व्ययपरित्याग: स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥१२॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ॥१३॥ [योगबिन्दौ १२६-१३०] इत्यादि । तस्य प्रशंसनं प्रशंसा, पुरस्कार इत्यर्थः, यथा गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥१४॥ [ ] तथा - शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ॥१५॥ [ ] इत्यादि । तथा [५] अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः ।।१५।। इति । अयुक्तित: प्रयुक्ता: काम-क्रोध-लोभ-मान-मद-हर्षा: शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः, तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः काम:, अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः, दानार्हेषु स्वधनाप्रदानमकारणपरधनग्रहणं वा लोभः, दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः, कुल१ इति L | इति ।। दि K॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy