________________
सवृत्तिके धर्मबिन्दौ
प्रथमोऽध्यायः
अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति ॥११॥ अत उक्तलक्षणात् न्यायात् अन्यथाऽपि अन्यायलक्षणेन प्रकारेण प्रवृत्ती व्यवहारलक्षणायां पाक्षिको वैकल्पिक: अर्थलाभः, कदाचित् स्यात् कदाचिन्नेत्यर्थः, नि:संशयो नि:सन्देहः तुः पुनरर्थः अनर्थ: उपघात: आयत्यामेव । इदमुक्तं भवति– अन्यायप्रवृत्तिरेव तावदसंभविनी, राजदण्डभयादिभिर्हेतुभिः प्रतिहतत्वात्, पठ्यते च
राजदण्डभयात् पापं नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥७॥ [ ] अथ कश्चिदधमाधमतामवलम्ब्य अन्यायेन प्रवर्तते तथाप्यर्थसिद्धिरनैकान्तिकी, तथाविधाशुद्धसामग्रीसव्यपेक्षपाकस्य कस्यचिदशुभानुबन्धिन: पुण्यविशेषस्य उदयवशात् स्यादन्यथा पुनर्नेति, यश्चानर्थः सोऽवश्यंभावी, अन्यायप्रवृत्तिवशोपात्तस्य अशुद्धकर्मण: नियमेन स्वफलमसंपाद्योपरमाभावात् । पठ्यते चअवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि 10[ ||११|| तथा
[२] समानकुल-शीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः ॥१२।। इति । समानं तुल्यं कुलं पितृ-पितामहादिपूर्वपुरुषवंश: शीलं मद्य-मांस-निशाभोजनादिपरिहाररूपो व्यवहारः, आदिशब्दात् विभव-वेष-भाषादि च येषां ते तथा, तैः कुटुम्बिभि: लोकैः सह, अगोत्रजैः, गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, ततो गोत्रे जाता: गोत्रजा:, तत्प्रतिषेधात् अगोत्रजाः, तैर तिचिरकालव्यवधा नवशेन त्रुटितगोत्रसंबन्धैश्चेति, किमित्याह-वैवाह्यं विवाह एव तत्कर्म वा वैवाह्यम्, सामान्यतो गृहस्थधर्म इति प्रकृतम्, किमविशेषेण?, नेत्याह- अन्यत्र विना बहुविरुद्धेभ्यः कुतोऽपि महतोऽनौचित्यात् बहुभिः तजातिवर्तिभिस्तत्स्थान-तद्देशवासिभिर्वा जनैः सह विरुद्धा घटनामनागता बहुविरुद्धाः, तैः, बहुविरुद्धान् लोकान् वर्जयित्वेत्यर्थः। असमानकुलशीलादित्वे हि परस्परं वैसदृश्यात् तथाविधनिणसंबन्धाभावेन असंतोषादिसंभवः।
किञ्च, विभववैषम्ये सति कन्या महतः स्वपितुरैश्वर्यादल्पविभवं भर्तारमवगणयति, इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहङ्कारः तत्पितुर्विभव१. प्रतिषु पाठा:-तैरिति चिर"1. । तैरति ॥ चिर K. । तैरति चिर" L.॥ २.धानत्रुटित K.॥ ३ 'तैः विना' इति योगः ।।
मफल-शीला शीतं मद्य प्राविधिक पुरुषप्रमतत्कर्म वा वैवातिभिस्तर
वैवाह्यं विवाह
बहुभिः तजातिका सदृश्यात् त
Jain Education International
For Private & Personal use only
www.jainelibrary.org