SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके | दारुणमत्यन्तव्यसनहेतुः, तस्य भावस्तत्त्वम् तस्मात्, अन्यत्राप्यवाचिधर्मबिन्दौ पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् ।बडिशामिषवत् तत् तमविनाश्य न जीर्यति ॥४॥ ] इति । नन्वेवमन्यायेन व्यवहानतिषेधे गृहस्थस्य वित्तप्राप्तिरेव न भविष्यति, तत् कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभ: स्यादित्याशङ्क्याह न्याय एव ह्याप्त्युपनिषत् परेति समयविदः ॥८॥ इति । न्याय एव न पुनरन्यायोऽपि, अर्थस्य विभवस्य आप्ति: लाभ: अर्थाप्तिः , तस्या उपनिषद् अत्यन्तरहस्यभूत उपाय:, प्रथमोऽध्यायः युक्तायुक्तार्थसार्थविभागकलनकौशलविकलैः स्थूलमतिभिः स्वप्नायमानावस्थायामप्यनुपलब्ध इति योऽर्थः, परा प्रकृष्टा, इत्येवं समयविदः सदाचाराभिधायिशास्त्रज्ञा ब्रुवते, तथा हि ते पठन्ति निपानमिव मण्डूका: सर: पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशा: सर्वसम्पदः ॥५॥ [ ] तथा नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥६॥ [ ] कुत एतदेवमित्याह ततो हि नियमतः प्रतिबन्धककर्मविगमः ॥९॥ इति । ततो न्यायात् सकाशात् हिर्यस्मात् नियमत: अवश्यंभावेन प्रतिबन्धकस्य परलाभोपघातजननद्वारेण भवान्तरे उपात्तस्य लाभविघ्नहेतोः कर्मणो लाभान्तरायलक्षणस्य विगमो विनाश: संपद्यते, यथा सम्यक्प्रयुक्ताया: लङ्घनादिक्रियायाः सकाशात् रोगस्य ज्वरा-ऽतिसारादेरिति।।९।। ततोऽपि किं सिद्धमित्याह सत्यस्मिन्नायत्यामर्थसिद्धिः ॥१०।। इति । सति विद्यमाने अस्मिन् आन्तरे प्रतिबन्धककर्मविगमे आयत्याम् आगामिनि काले अर्थसिद्धिः अभिलषितविभवनिष्पत्तिः आविर्भवतीति||१०|| एतद्विपर्यये दोषमाह१ प्रतिषु पाठा :-दारुणमत्यन्तव्यसनहेतुः नन्वेव' 11 दारुणं तस्य भावस्तत्त्वं तस्मात्, अन्यत्राप्यवाचि- पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत् तत् तमविनाश्य न जीर्यति ।। इति । नन्वेव K.L. I For Private & Personal Use Only www.jainelibrary.org Jan Education Internal
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy