________________
सवृत्तिके
धर्मबिन्दौ
६
Jain Education International
न्यायोपात्तं हि वित्तमुभयलोकहिताय ।।४।। इति ।
न्यायोपात्तं शुद्धव्यवहारोपार्जितं हिर्यस्मात् वित्तं द्रव्यं निर्वाहहेतुः किमित्याह — उभयलोकहिताय, उभयोः इहलोक-परलोकरूपयोः लोकयोर्हिताय कल्याणाय संपद्यते ||४|| एतदपि कुत: ? इत्याह
अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ॥५॥ इति ।
इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता - भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः 'परद्रव्यद्रोहकार्ययम्' इत्येवं दोषसंभावनलक्षणा, भोग्यस्य पुनः ‘परद्रव्यमिदमित्थमनेन भुज्यते' इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता, तया उपलक्षितेन भोक्त्रा परिभोगात् स्नान-पाना-ऽऽच्छादना - ऽनुलेपनादिभिः भोगप्रकारैः आत्मना मित्र-स्वजनादिभिश्च सह विभवस्योपजीवनात्, अयमत्र भावः - न्यायेनोपार्जितं विभवं भुञ्जानो न केनापि कदाचित् किञ्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोकहितत्वं च विधिना सत्कारादिरूपेण, तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थं पवित्रगुणपात्रपुरुषवर्ग: दीनानाथादिवर्गश्च तत्र गमनं प्रवेशः उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनम् तस्मात् चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा
पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यंत् ॥३॥ [ योगबिन्दौ १२१] । अत्रैव विपक्षे बाधामाहअहितायैवान्यत् ||६|| इति ।
अहितायैव अहितनिमित्तमेव उभयोरपि लोकयोः, न पुनः काकतालीयन्यायेनापि हितहेतुरिति एवकारार्थः, अन्यत् न्यायोपात्तवित्ताद् विभिन्नम्, अन्यायोपात्तवित्तमित्यर्थः ॥ ६॥ कुत एतदित्याह -
तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् ||७|| इति।
तस्य अन्यायोपात्तवित्तस्य अनपायित्वम् अविनाशित्वमिति योऽर्थः तस्मिन्नपि, अन्यायोपार्जितो हि विभवः अस्थ्यादिशल्योपहतगृहमिवाचिरात् विनाशमनासाद्य नास्ते, अथ कदाचिद् बलवतः पापानुबन्धिनः पुण्यस्यानुभावात् स विभवो यावज्जीवमपि न विनश्येत् तथापि मत्स्यादीनां मत्स्य- कुरङ्ग-पतङ्गादीनां ये गलादयः गल-गोरिंगान - प्रदीपालोकादयो रसनादीन्द्रियलौल्यातिरेककारिणः विषयविशेषाः तद्वद् विपाके परिणामे
For Private & Personal Use Only
प्रथमोऽध्यायः
६
www.jainelibrary.org