SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ५ Jain Education International दर्शयति-गृहस्थधर्मो यतिधर्मश्चेति । गृहे तिष्ठतीति गृहस्थः, तस्य धर्मो नित्य नैमित्तिकानुष्ठानरूपः । यः खलु देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय सततमेव यतते स यतिः, तस्य धर्म: गुर्वन्तेवासिता तद्भक्तिबहुमानावित्यादिः वक्ष्यमाणलक्षणः ॥ १ ॥ तत्र चगृहस्थधर्मोऽपि द्विविध:- सामान्यतो विशेषतश्च ॥ २॥ इति । गृहस्थधर्मोऽपि उक्तलक्षणः, किं पुनः सामान्यतो धर्म इत्यपिशब्दार्थः, द्विविधो द्विभेदः, द्वैविध्यमेव दर्शयति- सामान्यतो नाम सर्वशिष्टसाधारणानुष्ठानरूपः, विशेषतो विशेषेण सम्यग्दर्शना-ऽणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चये इति ॥२॥ तत्राद्यं भेदं शास्त्रकृत् स्वयमेवाध्यायपरिसमाप्तिं यावद्भावयन्नाह तत्र सामान्यतो गृहस्थधर्म : - [१] कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ||३|| इति । तत्र तयोः सामान्य-विशेषरूपयोः गृहस्थधर्मयोः वक्तुमुपक्रान्तयोर्मध्ये सामान्यतः गृहस्थधर्मोऽयम्, यथा कुलक्रमागतं पितृ-पितामहादिपूर्वपुरुषपरम्परासेवनाद्वारेण स्वकालं यावदायातम्, अनुष्ठानमित्युत्तरेण योगः पुनः कीदृशं तदित्याह — अनिन्द्यम्, निन्द्यं तथाविधपरलोकप्रधानसाधुजनानामत्यन्तमनादरणीयतया गर्हणीयं यथा सुरासंधानादि, तन्निषेधादनिन्द्यम्, तथा विभवाद्यपेक्षया विभवं स्वकीयमूलधनरूपमादिशब्दात् सहाय-काल- क्षेत्रादिबलं चापेक्ष्य न्यायतो न्यायेन शुद्धमान तुलोचितकलाव्यवहारादिरूपेण आसेवनीयावसरचित्ताराधनादिरूपेण च अनुष्ठानं वाणिज्य - राजसेवादिरूपम्, इदमुक्तं भवति — सर्वसाधुसंमतन्यायप्रधानस्य स्वविभवतृतीयभागादिना व्यवहारमारभमाणस्य राजसेवादौ च तदुचितक्रमानुवर्त्तिनः कुलक्रमायातानिन्द्यानुष्ठानस्य अत्यन्तनिपुणबुद्धेः अत एव सर्वापायस्थानपरिहारवतो गृहस्थस्य धर्म एव स्यात्, दीनानाथाद्युपयोगयोग्यतया धर्मसाधनस्य विभवस्योपार्जनं प्रति प्रतिबद्धचित्तत्वादिति । यच्चाऽऽदावेवानिन्द्यानुष्ठानस्य गृहस्थसंबन्धिनो धर्मतया शास्त्रकारेण निदर्शनमकारि तत् ज्ञापयति निरनुष्ठानस्य निर्वाहविच्छेदेन गृहस्थस्य सर्वशुभक्रियोपरमप्रसङ्गादधर्म एव स्यादिति, पठ्यते च वित्तीवोच्छेयंमी गिहिणो सीयंति सव्वकिरियाओ । निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥२॥ [ पञ्चा. ४/७ ] अथ कस्मात् न्यायत इत्युक्तमिति, उच्यते— १ पञ्चमेऽध्याये ५३४॥ For Private & Personal Use Only प्रथमोऽध्यायः www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy