________________
प्रथमोऽध्यायः
सवृत्तिके | कार्यम्, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यवस्थोपरमप्रसङ्गात् । यच्च यदृच्छाप्रणयनप्रवृत्तेषु धर्मबिन्दौ तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित् किञ्चिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित् तदपि
जिनप्रणीतमेव, तन्मूलत्वात् तस्य । न च वक्तव्यं तर्हि अपौरुषेयं वचनमविरुद्धं भविष्यति', कुत: ? यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि उक्तिर्वचनम्, पुरुषव्यापारानुगतं रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति? किंच, एतदपौरुषेयं न क्वचिद् ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेर्वक्तुराशङ्काऽनिवृत्ते:—'मा न तेन तद् भाषितं स्यात्' । ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्ति: प्रसूयत इति ?
कीदृशमनुष्ठानं धर्म इत्याह- यथोदितं यथा येन प्रकारेण कालाधाराधनानुसाररूपेणोदितं प्रतिपादितं तत्रैवाविरुद्धे वचने, अन्यथा प्रवृत्तौ तु तद्वेषित्वमेवापद्यते, न तु धर्म:, यथोक्तम्
तत्कारी स्यात् स नियमात् तद्वेषी चेति यो जडः । आगमार्थे तमुल्लध्य तत एव प्रवर्तते ॥शा [योगबिन्दौ २४०] इति ।
पुनरपि कीदृशमित्याह - मैत्र्यादिभावसंयुक्तम्, मैत्र्यादयो मैत्री-प्रमोद-करुणा-माध्यस्थ्यलक्षणा ये भावा अन्त:करणपरिणामाः, तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्व-गुणाधिक-क्लिश्यमाना-ऽविनेयेषु, तैः संयुक्तं संमिलितं मैत्र्यादिभावानां निःश्रेयसा -ऽभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात् । तदेवंविधमनुष्ठानं धर्म इति दुर्गतिपतज्जन्तुजातधरणात् स्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन कीर्त्यते शब्द्यते सकलाकल्पितभावकलापाऽऽकलनकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात्, यथा नड्वलोदकं पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः ॥३॥ अथामुमेव धर्मं भेदत: प्रभेदतश्च बिभणिषुराह
सोऽयमनुष्ठातृभेदात् द्विविध: - गृहस्थधर्मो यतिधर्मश्च ॥१।। इति । स यः पूर्वं प्रवक्तुमिष्टः अयं साक्षादेव हृदि विवर्तमानतया प्रत्यक्ष: अनुष्ठातृभेदात् धर्मानुष्ठायकपुरुषविशेषात् द्विविधो द्विप्रकारो धर्मः, प्रकारावेव १ उपलम्भे अदृस्यपिशाचादे ॥२ मा तेन K. । तुलना-पृ०५५ पं० ८ ॥ ३ तत्कारी च स 1॥ ४ धर्मबिन्दुवृत्तावुद्धृतानां पद्यानां पद्यार्धादीनां वा क्रमेण संख्यासूचकोऽयमङ्क इति सर्वत्रावसेयम् ।। ५ संमीलितं . ॥ * एतच्चिह्नाकितानां पाठानां विवरणादिकं चतुर्थे परिशिष्टे द्रष्टव्यम् । एवमग्रेऽपि सर्वत्रावसेयम् ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org