________________
प्रथमोऽध्यायः
सवृत्तिके | अभिधानाभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मबिन्दुरिहाभिधेयः, इदं च प्रकरणं वचनरूपापन्नमभिधानमिति । प्रयोजनं च प्रकरणकर्तुरनन्तरं धर्मबिन्दौ सत्त्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्ठानस्य निर्वाणैकफलत्वादिति ॥१॥
धर्मबिन्दुं प्रवक्ष्यामीत्युक्तम्, अथ धर्मस्यैव हेतुं स्वरूपं फलं च बिभणिषुः ‘फलप्रधानाः प्रारम्भा मतिमतां भवन्ति' इति फलमेवादौ, तदनु हेतुशुद्धिभणनद्वारेण धर्मस्वरूपं चोपदर्शयन्निदं श्लोकद्वयमाह
धनदो धनार्थिनां प्रोक्त: कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥२॥
वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ॥३।। इति । धनं धान्य-क्षेत्र-वास्तु-द्विपद-चतुष्पदभेदभिन्नं हिरण्य-सुवर्ण-मणि-मौक्तिक-शङ्ख-शिला-प्रवालादिभेदं च धनपतिधनर्द्धिप्रतिस्पर्धि तीर्थोपयोगफलं ददाति प्रयच्छति यः स तथा, धनार्थिनां धनमन्तरेण गृहिणो न किञ्चिदिति बुद्ध्या धनविषयातिरेकस्पृहावतां प्रोक्तः शास्त्रेषु निरूपितः, धर्म एवेत्युत्तरेण योगः, तथा कामिनां कामाभिलाषवतां प्राणिनाम्, काम्यन्ते इति कामा: मनोहरा अक्लिष्टप्रकृतयः परमाह्लाददायिनः परिणामसुन्दरा: शब्द-रूप-रस-गन्ध-स्पर्शलक्षणा इन्द्रियार्थाः, ततः सर्वे च ते कामाश्च सर्वकामाः, तान् ददातीति सर्वकामदः । इत्थमभ्युदयफलतया धर्ममभिधाय निःश्रेयसफलत्वेनाह- धर्म एव नापरं किञ्चित्, अपवृज्यन्ते उच्छिद्यन्ते जाति-जरा-मरणादयो दोषा अस्मिन्नित्यपवर्ग: मोक्षः, तस्य, पारम्पर्येण अविरतसम्यग्दृष्टिगुणस्थानाधारोहणलक्षणेन सुदेवत्व-मनुष्यत्वादिस्वरूपेण वा साधकः सूत्रपिण्ड इव पटस्य स्वयं परिणामिकारणभावमुपगम्य निर्वर्तक इति ॥२॥
उच्यते इति वचनम् आगमः, तस्मात्, वचनमनुसृत्येत्यर्थः, यदित्यद्याप्यनिरूपितविशेषमनुष्ठानम् इहलोक-परलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिः तद् धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशाद्वचनादित्याह- अविरुद्धात् निर्देक्ष्यमाणलक्षणेषु कष-च्छेद-तापेषु अविघटमानात्, तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः । वचनस्य हि वक्ता निमित्तमन्तरङ्गम्, तस्य च राग-द्वेष-मोहपारतन्त्र्यमशुद्धिः, तेभ्यो वितथवचनप्रवृत्तेः, न चैषा अशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति राग-द्वेष-मोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थानुपपत्तेः, तपन-दहनादिशब्दवदन्वर्थतया चास्याभ्युपगमात्। निमित्तशुद्धयभावान्नाजिनप्रणीतमविरुद्धं वचनम्, यत: कारणस्वरूपानुविधायि
Jan Education International
Far Private
Personal Use Only
www.jainelibrary.org