SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ४६ आमुखम् प्रतिपरिचयः। १.J.K१. K. D.L. इति तालपत्रोपरि लिखितान् यान् षड् हस्तलिखितादर्शानवलम्ब्य ग्रन्थोऽयं मुद्रित: तेषां स्वरूपं धर्मबिन्दोः प्रथम एव पत्रे टिप्पण्यां संक्षेपेण वर्णितमेवस्माभिः, अतस्तत्रैव द्रष्टव्यम् । एषु K. प्रतिः वैक्रमे ११८१ वर्षे लिखिता इति प्राचीनतमा भाति । १. J. L. D. प्रतीनां प्रान्ते लेखनवर्षनिर्देशो यद्यपि नास्ति तथापि तालपत्रोपरि लिखितत्वात् ता अपि प्राचीना एव । त धन्यवादः अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतो किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायका:___ परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वैः प्रकारैर्विधत्ते। मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजय: सदा मे मानसिकं बलं पुष्णाति। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजय: तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्राथमिकपत्रसमूह(प्रूफ)पठन-परिशिष्टकरणविविधसंस्करणादिषु अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तौ । एवमेव मम मातुः साध्वीश्रीमनोहरश्रिय: शिष्याया? साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि उपरि निर्दिष्टेषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् । पाटणनिवासिनः त्रिक्रमलालात्मजश्रेष्ठिश्रीव्रजलालमहोदयस्य सुपुत्र: मयूरोऽपि कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । एतेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते। अस्य संशोधनं पादलिप्तपुर्या (पालिताणानगरे) शत्रुञ्जयगिरिराजाधिराजश्रीऋषभदेवप्रभोः छायायां पञ्चषेभ्य: वर्षेभ्यः प्राक् समारब्धम् १.हस्तलिखिता आदर्शा तादृग्रूपा वा मुद्रिता ग्रन्था जैनपरम्परायां प्रतिशब्देन प्रसिद्धाः ॥ Jan Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy