________________
सवृत्तिके धर्मबिन्दौ
४५
Jain Education International
टीका (८) ओघनिर्युक्तिवृत्ति (९) कथाकोष (१०) कुलकानि ( ११ ) क्षेत्रसमासवृत्ति (१२) चैत्यवन्दनभाष्य (१३) जम्बूद्वीपप्रज्ञप्तिटीका (१४) जम्बूद्वीपसंग्रहणी (१५) त्रिभङ्गीसार (१६) दिनशुद्धि (१७) द्विजवदनचपेटा (१८) धर्मलाभसिद्धि (१९) धर्मसार (२०) न्यायावतारवृत्ति (२१) पञ्चनियंठी (२२) पञ्चलिङ्गी (२३) पञ्चस्थानक (२४) परलोकसिद्धि (२५) बृहन्मिथ्यात्वमथन (२६) भावनासिद्धि (२७) संग्रहणीवृत्ति (२८) सम्बोधसित्तरी (२९) संस्कृतात्मानुशासन
आचार्यमुनिचन्द्रसूरयो वैक्रमे १९७८ तमे वर्षे दिवंगता इति अस्माभिः प्रागेव निर्दिष्टम्, इति ततः पूर्वमेवासन् । किञ्च, धर्मविन्दुवृत्ते : K. आमुखम् प्रतिरपि ११८१ तमे वैक्रमे वर्षे लिखिता इति ततः प्रागेव ते बभूवुः ।
एतैर्विरचितानां ग्रन्थानां सूचिः उपदेशपदवृत्तेर्द्वितीयविभागस्य प्रस्तावनायां या उपन्यस्ता साऽत्र तथैवोपन्यस्यते - "कुलकप्रभृतिस्वतन्त्रग्रन्थरचनात्वेन अन्यकृतग्रन्थोपरि- टीका-विवरणचूर्णिटीप्पनकादित्वेन चानल्पाः कृतयो दृश्यन्ते श्रूयन्ते च । ताश्चेमाः (१) वनस्पतिसप्ततिः, (२) अङ्गुलसप्ततिः, (३) आवश्यक (पाक्षिक) सप्ततिः, (४) कालशतकम्, (५) गाथाकोश:, (६) अनुशासनाङ्कुशकुलकम्, (७) उपदेशामृत कुलकम्, (८) उपदेशामृतकुलकं द्वितीयम्, (९) उपदेशपञ्चाशिका, (१०) धर्मोपदेशकुलकं, (११) धर्मोपदेशकुलकम् द्वितीयम्, (१२) प्राभातिस्तुति:, (१३) मोक्षोपदेशपञ्चाशत् (क), (१४) रत्नत्रयकुलकम्, (१५) शोकहरउपदेशकुलकम्, (१६) सम्यक्त्वोत्पादविधि:, (१७) सामान्यगुणोपदेशकुलकम्, (१८) हितोपदेशकुलकम्, (१९) रसाउलो - [ प्राकृतात्मक: ] ( २० ) तीर्थमालास्तव: । टीकादि- (२१) ललितविस्तरापञ्जिका, (२२) अनेकान्तजयपताकाटीप्पनकम्, (२३) देवेन्द्रनरकेन्द्रप्रकरणवृत्ति:, (२४) धर्मबिन्दुविवृत्तिः, (२५) योगबिन्दुवृत्तिः, (२६) कर्मप्रकृतिविशेषवृत्तिः [ टीप्पनं ], (२७) सार्धशतकचूर्णिः, (२८) उपदेशपदसुखसम्बोधनीवृत्तिः, उदयप्रभसूरिकृतप्रवचनसारोद्धारविषमपदपर्यायस्य संशोधकत्वमप्येतेषां तत्तद्ग्रन्थान्ते ॥"
|
श्री
परिशिष्टानि
अत्र सप्त परिशिष्टानि अस्माभिर्योजितानि । कस्मिन् परिशिष्टे किं किं वर्णितं तत् परिशिष्टाद्यांशावलोकनेन विषयानुक्रमावलोकनेन च ज्ञातव्यम् ।
For Private & Personal Use Only
-
४५
www.jainelibrary.org