SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वृत्ति धर्मबिन्दौ ४३ Jain Education International विक्रमसंवत् १९७४ तमे विरचिताया वृत्तेरन्ते वृत्तिकारैराचार्यश्री मुनिचन्द्रसूरिभिः संक्षेपतो यदाचार्य श्रीहरिभद्रसूरेर्जीवनवृत्तं लिखितं प्रभूतार्थप्रतिपादकमिति अस्मिन्नेव धर्मबिन्दुप्रकरणे सप्तमे परिशिष्टेऽस्माभिरुद्धृतम्, जिज्ञासुभिः सप्तमे परिशिष्टे [ ] द्रष्टव्यम् । वृत्तेस्तु विरचयितार आचार्यश्री मुनिचन्द्रसूरयः, एतच्च प्रत्यध्यायं वृत्तेरन्ते तैरेव सर्वत्र लिखितम् । एतेषामपि जीवनवृत्तं गुर्जरभाषात्मिकाय प्रस्तावनायामस्माभिः किञ्चिन्निर्दिष्टमेव । एते महापुरुषा अणहिलपुरपत्तने विक्रमसंवत् ११७८ तमे वर्षे कार्तिक कृष्णपञ्चम्याम् अष्टमं नमस्कारमहामन्त्रं जपन्तः (उच्चारयन्तः ) स्वर्लोकमलंचक्रुः । एतेषामद्भुतं जीवनवृत्तं तेषामेव शिष्यैः प्रमाणनयतत्त्वालोक - स्याद्वादरत्नाकरादिग्रन्थप्रणेतृभिः प्रसिद्धतमैः वादिभिः आचार्यश्री देवसूरिभिर्विरचितायां मुनिचन्द्राचार्यस्तुतौ गुरुविरहविलापे च किञ्चिद् दृश्यते । किञ्चिच्च उपदेशपदवृत्तेः प्रशस्तौ तैः स्वयमेव लिखितम् । एतत् सर्वमस्य धर्मबिन्दुप्रकरणस्य सप्तमे परिशिष्टे ग्रन्थान्तरादुद्धृत्य प्रदत्तमिति जिज्ञासुभिस्तत्रैव विलोकनीयम् । I धर्मबिन्दोः स्वरूपम् धर्मेन्दुप्रकरणस्य अष्टौ अध्यायाः । प्रत्यध्यायमादौ त्रयः श्लोका अन्ते च त्रयः श्लोका इत्येवं सर्वसंख्यया ४८ श्लोका अत्र सन्तिः । मध्ये गद्यरूपाणि सूत्राणि वर्तन्ते । प्रथमेऽध्याये ५८, द्वितीये ७५, तृतीये ९३, चतुर्थे ४३, पञ्चमे ९८, षष्ठे ७६, सप्तमे ३८, अष्टमे ६९ इति सर्वसंख्यया ५४२ सूत्राणि अत्र सन्ति । सर्वमपीदं संस्कृतभाषया निबद्धम् । विषय: गृहस्थधर्म-यतिधर्मविषयेऽत्यद्भुतोऽयं ग्रन्थः । न केवलं जैनवाङ्गये, भारतीयवायेऽपि अत्यद्भुतोऽयं ग्रन्थः । इहलोक - परलोकयोः सुखार्थं सर्वैरपि गृहस्थैर्यतिभिश्च अवश्यमेव मननीयोऽयं ग्रन्थः । अत्र के के विषया वर्णिता इत्यादि सर्वं विषयानुक्रमावलोकनेन ज्ञातव्यम् । समय: "पंचसए पणसीए विक्कमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो भवियाणं दिसउ कल्लाणं ॥" इति तत्र तत्रोपलभ्यमानगाथानुसारेण वैक्रमे ५८५ वर्षे आचार्यश्री हरिभद्रसूरयो दिवंगता इति परम्परानुसारिण आमनन्ति । अपरे तु इतिहाससंशोधका १.भूयस्सु ग्रन्थेषूद्धृतेयं गाथा ॥ For Private & Personal Use Only आमुखम् ४३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy