SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ४२ श्रीसिद्धाचलमण्डन - ऋषभदेवस्वामिने नमः । श्री शङ्खेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्येभ्यो नमः । आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मन: पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराज श्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च सवृत्तिकं धर्मबिन्दुप्रकरणं तालपत्रोपरिलिखितविविधप्राचीनादर्शाद्यनुसारेण संशोध्य सम्पाद्य च धर्मरसिकानां जनानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । रचयितारः Jain Education International याकिनीमहत्तराधर्मसूनुत्वेन प्रसिद्धा जिनशासनस्य महाप्रभावका ग्रन्थचतुर्दशशतीप्रणेतार आचार्यश्री हरिभद्रसूरयोऽस्य धर्मबिन्दुप्रकरणस्य विरचयितारः । एतच्च ग्रन्थान्ते [ पृ० १५९ ] ' कृतिराचार्य श्रीहरिभद्रस्य', ४८ तमे श्लोके [पृ० १५९ ] स तत्र दुःखविरहादत्यन्तसुखसंगतः' इति विरहशब्दस्योल्लेखाच्च स्पष्टमेव, यतो विरहाङ्कितत्वमेषामेव सुप्रसिद्धम् । एतेषां जीवनवृत्तं गुर्जरभाषात्मिकायां प्रस्तावनायामत्रास्माभिः संक्षेपेण दर्शितमेव । विस्तरस्तु संस्कृत - प्राकृतभाषात्मकेषु कहावली - प्रभावकचरित-प्रबन्धकोशादिषु ग्रन्थेषु सुप्रसिद्धम्, विशेषतो जिज्ञासुभिस्तत्रैव विलोकनीयम्। आचार्यश्रीहरिभद्रसूरिविरचितस्य उपदेशपदस्य For Private & Personal Use Only आमुखम् ४२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy