________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ परिशिष्टम्
२७२
Jain Education International
आई० गाहा । आईमज्झवसाणे त्ति दिवसस्यादौ मध्येऽवसाने वा, किमित्याह-गोरिव चरणं गोचर:, यथाहि गौरुच्चावचतृणेषु मुखं वाहयंश्चरति एवं यदुच्चावचगृहेषु साधोर्भिक्षार्थं संचरणं स गोचरः, ततः षड्भिगौचरैर्हिण्डत इति षड्गोचरहिण्डकः, ते चामी -पेटा, अर्धपेटा, गोमूत्रिका, पतङ्गवीथिका, संबुक्कवृत्ता, गत्वाप्रत्यागता चेति । तत्र पेटा चतुरस्रतागमनम् [ ] अर्धपेटाअर्धसमानतागमनम् । गोमूत्रिका गोमूत्रवद् गमनम् WWW । पतङ्गवीथिका शलभवद् गमनम्, अर्द्दवितर्दमित्यर्थः । संबुकवृत्ता शङ्खवद् वृत्ततागमनम्, सा च द्विविधा - प्रदक्षिणतः अप्रदक्षिणतश्च । गत्वाप्रत्यागता नाम एकस्यां गृहपङ्क्त्यां भिक्षां गृह्णन् गत्वा द्वितीयायां तथैव निवर्तते यत्रेति । इमो त्ति अयं प्रतिमाप्रतिपन्नः ज्ञेयो ज्ञातव्यः । तथा ज्ञात: 'प्रतिमाप्रतिपन्नोऽयम्' इत्येवं जनेन अवसितः सन् एकरात्रवासी एकत्र ग्रामादौ अहोरात्रमेव वस्तुंशीलः, तथा एकं वा एकरात्रं द्विकं वा रात्रिद्वयं ग्रामादौ वस्तुंशील इति गम्यम्, वाशब्दौ विकल्पार्थी, अज्ञातो यत्र ग्रामादावविदितः प्रतिमाप्रतिपन्नतयेति ॥८॥” इति अभयदेवसूरिविरचितवृत्तिसहिते पञ्चाशके ॥ " आइ० गाहा । आदिश्च मध्यश्च अवसानं च त्रिधा प्राक् कुप्तदिवसस्य आदिमध्यावसानं तस्मिन् षड्गोचरहिण्डकः षड्वीथिहिण्डकोऽयं प्रतिमापन्नो ज्ञेयो ज्ञातव्यः, ज्ञाते सति 'अयं प्रतिमाप्रतिपन्नो महात्मा विहरति' इत्येवमवगते एकरात्रं वस्तुं शीलमस्येति ज्ञातैकरात्रवासी, एकं च द्विकं च एकरात्रं द्विरात्रं च अज्ञाते लोकेन अविदिते तस्य वस्तुं कल्पते इति शेषः” इति यशोभद्रसूरिविरचितवृत्तियुते पञ्चाशके पृ २५० - २५१॥ पृ० ११८ पं० ९ ॥ “पव्वावण मुंडावण मणसाऽऽवन्ने वि से अणुग्धाया । कारण निप्पडिकम्मे भत्तं पंथो व तइया ॥ १४१४||... ॥१४३०|| इति बृहत्कल्पभाष्ये संपूर्णा गाथा ||
पृ० ११८ पं० १४ ॥ संयतः कीदृशीं भाषां भाषेत' इत्यस्मिन् सम्बन्धे आचाराङ्गसूत्रे द्वितीये श्रुतस्कन्धे चतुर्थे भाषाध्ययने ईदृशं सूत्रमुपलभ्यते – “अणुवीयि णिट्ठाभासी समिताए संजते भासं भासेज्जा, तंजहा- एगवयणं १, दुवयणं २, बहुवयणं ३, इत्थीवयणं ४, पुरिसवयणं ५, णपुंसगवयणं ६, अज्झत्थवयणं ७, उवणीयवयणं ८, अवणीयवयणं ९, उवणीत अवणीतवयणं १०, अवणीतउवणीतवयणं ११, तीयवयणं १२, पडुप्पण्णवयणं १३, अणागयवयणं १४, पच्चक्खवयणं १५, परोक्खवयणं १६ ।” - सू० ५२१ ॥
पृ० १२१ पं० १५ ॥ “गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुयाहिगमो || १८|५|| गच्छे० गाहा । गच्छ एव साधुसमुदायमध्य एव तिष्ठन् निर्मात: प्रतिमाकल्पपरिकर्मणि आहारादिविषये परिनिष्ठितः आह च- पडिमाकप्पियतुल्लो
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२७२
www.jainelibrary.org